________________
[ पाद. २. सू. ११३-११४ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने सप्तमोध्यायः [२८५ तत्काले वाविप्रकृष्ट वर्तमानात्तद्वति धा प्रत्ययो भवति ।
बहव आसन्ना वारा अस्य बहुधा भुङ्क्ते, बहुधा पिबति । आसन्न इति किम् ? बहुकृत्वो मासस्य भुङ्क्ते । आसन्नवारेऽपि चारमात्रे द्योत्ये कृत्वस् प्रत्ययो भवत्येव । बहुकृत्वोऽह्नो भुङ्क्ते, आसन्नता तु प्रकरणादिना गम्यते । एके तु गणधा भुङक्ते तावद्धा भुङक्ते इत्यत्रापीच्छन्ति १११२॥ दिकशब्दादिग्देशकालेषु प्रथमापञ्चमीसप्तम्याः ॥ ७. २. ११३ ॥
दिकशब्दादिशि प्रसिद्धाच्छब्दादिशि देशे काले च वर्तमानात् प्रथमापञ्चमीसप्तम्यन्तात् स्वार्थे धा प्रत्ययो भवति । प्राची दिग् रमणीया प्राग्रमणीयम् । प्राङ् देशो रमणीयः प्राग्रमणीयम्, प्राङ कालो रमणीयः प्राग्र- . मणीयम्, प्राच्या दिश आगतः प्रागागतः, प्राचो देशादागतः प्रागागतः, प्राचः कालादागतः प्रागागतः, प्राच्यां दिशि वसति प्राग्वसति, प्राचि देशे वसति प्राग्वसति, प्राचि काले वसति प्राग्वसति । 'लुबञ्चेः'-(७-२-१२३) इति धाप्रत्ययस्य लुप् । लुपि 'यादेः' (२-४-९४) इत्यादिना ङोलुक् । दिक्शब्दादिति किम् ? ऐन्द्री दिक् । दिग्देशकालेष्विति किम् ? प्राङ् वृक्षः । प्रथमापञ्चमीसप्तम्या इति किम् । प्राची दिशं पश्यति, प्राच्या दिशा प्रज्वलितम् । प्राच्य दिशे देहि, प्राच्या दिशः स्वम् । दिग्देशकालेष्विति बहुवचन प्रथमादिभिर्यथासंख्यनिवृत्त्यर्थम् ।११३।
न्या० स० दिक्श-ननु दिग्देशकालेष्विति दिगग्रहणे किमर्थ, यो हि दिग्शब्दः स दिशि वर्तत एव ?
नैवं, न हि दिगशब्दो दिश्येब वर्ततेऽपि तु देशादावपि, तत्र दिग्ग्रहणं विना देशकाल इत्युच्यमाने यदा दिक्शब्दो देशे काले वा वर्तते तदैव प्रत्ययः स्यात् , यदा तु दिशि तदा न स्यात् , ततो दिग्देशकालेषु त्रिष्वेव वर्तमाना दिक्शब्दा गृह्यन्ते, तेन केवलायां दिशि ककुभप्रभृतिभ्यो न भवति ।
प्रागरमणीयमिति एषु क्रियाव्ययविशेषणे इत्यनेनाव्ययविशेषणत्वात् नपुंसकत्वम् । ऊर्ध्वादिरिष्टातावुपश्चास्य ॥ ७. २, ११४ ॥
ऊर्ध्वशब्दादिग्देशकालेषु वर्तमानात् प्रथमापञ्चमीसप्तम्यन्तात् रि रिष्टात् इत्येतौ प्रत्ययौ धापवादौ भवतः, अस्य चोर्ध्वशब्दस्योपादेशो भवति । ऊर्ध्वा दिग्देशः कालो वा रमणीयः, उपरि रमणीयम् उपरिष्टात् रमणीयम्, एवम् उपर्यागतः, उपरिष्टादागतः, उपरि वसति उपरिष्टाद्वसति ।११४॥