________________
२८४ ]
बृहद्वृत्ति - लघुन्यास संवलिते
[ पाद. २ सू० १०८-११२ ] गम्यमाने धमञ् एधा इत्येतौ प्रत्ययौ वा भवतः । वचनभेदाद्यथासंख्यं नास्ति । द्वाभ्यां प्रकाराभ्यां द्वैधम्, त्रैधम्, द्वेधा, त्रेधा भुङ्क्ते । वावचनात् द्विधाः त्रिधा । एकं राशि द्वौ करोति द्वैधम्, त्रैधम्, द्वेधा त्रेधा, द्विधा, त्रिधा करोति । १०७ ।
तद्वति धण् ॥ ७ २ १०८ ॥
द्वित्रिभ्यां संख्यावाचिभ्यां तद्वति प्रकारवति विचालवति चाभिधेये धण् प्रत्ययो भवति । द्वौ प्रकारौ विभागौ वा एषां द्वैधानि, त्रैधानि, राजद्वैधानि, राजद्वैधानि द्वैधीभावः, त्रैधीभावः । १०८ ।
वारे कृत्वस् ॥ ७. २. १०९॥
संख्याया इति वर्तते, वारो धात्वर्थस्यायौगपद्येन वृत्तिः, तत्कालो वा । तस्मिन्वर्तमानात्संख्याशब्दात् तद्वति वारवति धात्वर्थे क्रियायामर्थे कृत्वस् प्रत्ययो भवति । पचवारा अस्य पञ्चकृत्वो भुङ्क्ते, षट्कृत्वः, शतकृत्वः सहस्रकृत्वोऽधीते । बहुकृत्वः, गणकृत्वः, कतिकृत्वः, तावत्कृत्वः । भुज्यर्थो वारवानिति भुज्यर्थस्य इदं विशेषणम् । तद्वतीत्येव ? भोजनस्य पञ्च वाराः । संख्याया इत्येव ? भूरयो वारा अस्य भोजनस्य । १०९ ।
न्या० स० वारे० - तत्कालो वेति तस्य धात्वर्थस्यायौगपद्येन वृत्तेः कालः । इदं विशेषणमिति पञ्चकृत्व इत्यादिकम् । भोजनस्य पञ्च वारा इति इह वारे पञ्चेति संख्याया वृत्तिरस्ति न तु वाश्वानुच्यते भोजनस्य वारेण संबन्धमात्रस्यैव विद्यमानत्वात् ।
द्वित्रिचतुरः सुच् ॥ ७. २. ११० ॥
द्वित्रिचतुर् इत्येतेभ्यः संख्याशब्देभ्यो वारे वर्तमानेभ्यस्तद्वति सुच् प्रत्ययो भवति, कृत्वसोऽपवादः ।
द्वौ वारावस्य द्विर्भुङ्क्ते, त्रिर्भुङ्क्ते, चतुभुङ्क्ते । इह तु द्विस्तावान् प्रासादः द्विर्दशेति गम्यमानेऽपि वारे भवति । चकारः ' सुचो वा' (२-३-१० ) इत्यत्र विशेषणार्थः । ११० ।
न्या॰ स॰ द्वित्रि०-गम्यमानेऽपीति धात्वर्थस्यायौगपद्येन वृत्तिर्वारः इह तु न धात्वर्थस्य वृत्तिरपि तु दशेति संख्यार्थस्येत्याशङ्का ।
एकात्सकृच्चास्य ।। ७. २. १११ ॥
एकशब्दाद्वारे वर्तमानात्तद्वत्यभिधेये सुच्प्रत्ययः सकृदिति चास्यादेशो भवति । कृत्वंसोऽपवादः । एकवारं भुङ्क्ते सकृद्भुङ्क्ते ।१११। बोस ने । ७. २. ११२ ॥
बहुशब्दात्संख्यावाचिन आसन्ने अविदूरेऽविप्रकृष्टकाले वारे क्रियाप्रवृत्तौ