________________
[ पाद. २. सू. ४] श्रीसिद्धहेमचन्द्रशब्दानुशासने सप्तमोध्यायः [२८३ संख्याया धा ॥ ७. २. १०४॥
संख्यावाचिनो नाम्नः प्रकारे वर्तमानाद्धा प्रत्ययो भवति । एकेन प्रकारेण एकधा। द्विधा, त्रिधा, चतुर्धा, पञ्चधा, शतधा, बहुधा, गणधा, कतिधा, तावद्धा ।१०४। ___ न्या० स० संख्या-द्विधेति 'किमः कस्तसादौ च' २-१-४० इत्यत्रादिशब्दो व्यवस्थावाचीति थमवसाना एव तसादयो ग्राह्याः, तेनात्र धाप्रत्यये 'आद्वेरः' २-१-४१ इत्यत्वं न भवति तसाद्यभावात् । विचाले च ॥ ७. २. १०५॥
विचलनं विचालः, द्रव्यस्य पूर्वसंख्यायाः प्रच्युतिः संख्यान्तरापत्तिः एकस्यानेकीभावः अनेकस्य चैकीभावः, तस्मिन् गम्यमाने संख्यावाचिनो नाम्नी धाप्रत्ययो वा भवति । एको राशिौं क्रियते द्विधा क्रियते, विधा क्रियते । एको राशिौं भवति द्विधा भवति, त्रिधा भवति । एक राशि द्वौ करोति, द्विधा करोति, त्रिधा करोति शतेन शतधा ।
'यदि मे यतमानाया वचनं न करिष्यसि ।
उन्मत्त शतवा मूर्धा तवैषोऽद्य फलिष्यति' ॥१॥ अनेक एकः क्रियते एकधा क्रियते । अनेक एको भवति एकधा भवति । अनेकमेकं करोति एकधा करोति । पञ्च राशयत्रयो द्वौ एको वा क्रियन्ते त्रिधा द्विधा एकधा वा क्रियन्ते । एवं त्रिधा, द्विधा, एकधा वा भवन्ति । त्रिधा, द्विधा, एकधा वा करोति । एवं बहुधा, गणधा, कतिधा, तावद्धा । चकार उत्तरत्र प्रकारे विचाले चेत्युभयोः समुच्चयार्थः ।१०५।
न्या० स० विचाले०-प्रकारे विचाले चेति प्रकारोऽवस्थितस्य धर्मिणो भवति, विचाले तु अवस्थित एव धर्मी (धर्मः) पृथक्क्रयते । वैकाद् ध्यमञ् ॥ ७. २. १०६ ।।
एक इत्येतस्मात् संख्यावाचिनः प्रकारे वर्तमानाद्विचाले च गम्यमाने ध्यमञ् प्रत्ययो भवति वा। एकेन प्रकारेण ऐकध्यम्, एकधा भुक्ते । अनेकमेकं करोति ऐकध्यं करोति, एकधा करोति । वाग्रहणं धार्थम् ॥१०६।
न्या० स० वैका०-संख्यावाचिन इति अन्यादावप्यसौ वर्त्तते इति संख्याविशेषणं सार्थकम् । - दित्रेर्धमत्रेधी वा ॥७ २. १०७ ।।
दि. त्रि इत्येताभ्यां संख्यावाचिभ्यां प्रकारे वर्तमानाभ्यां विचाले च