________________
२८२ ] बृहद्वृत्ति-लघुन्याससंवलिते [पाद. २ सू. १००-१०३ ] ऐषमापरुत्परारि वर्षे ॥ ७. २. १००॥
ऐषमस्, परुत्, परारि इत्येते वर्षे संवत्सरे काले निपात्यन्ते । ऐषमसिति इदम्शब्दात्सप्तम्यन्ताद्वर्षे वर्तमानात् समसिण् प्रत्ययः इदमश्वकारादेशः । अस्मिन् संवत्सरे ऐषमः, इमकस्मिन् संवत्सरे ऐषमः । परुदिति पूर्वशब्दात् परशब्दाद्वा उत् प्रत्ययस्तस्य च पर इत्यादेशः । पूर्वस्मिन् परस्मिन् वा संवत्सरे परुत् । परारीति पूर्वतरशब्दात्परतरशब्दाद्वा आरिप्रत्ययः तस्य च परादेशः, पूर्वतरे परतरे वा संवत्सरे परारि ।१००।
अनद्यतने हिः ।। ७. २. १०१॥
सप्तम्यन्तादनद्यतने काले वर्तमानात् यथासंभवं किमयादिसर्वाधवैपुल्यबहोः हिः प्रत्ययो भवति । कस्मिन्ननद्यतने काले कहि, यहि, तहि, अन्यहि । एतस्मिन् काले एतर्हि, एतदः साको नेष्यते । अमुष्मिन् काले अमुहि, इदमस्तु अनेन नेष्यते । बहुषु कालेषु बहुर्हि । किंयत्तदेतदन्येभ्य एवेच्छन्त्यन्ये । काल इत्येव ? यस्मिन्ननघतने भोजने यत्र । अनद्यतन इति किम् ? यस्मिन् काले यदा, अनद्यतनेऽपि काले कालमात्रविवक्षायाम् दादिः प्रत्ययो भवति । कदा, यदा, तदा, तदानीम्, अन्यदा सप्तम्यर्थमात्रविवक्षायां प्रवपि भवति । अमुत्र काले ।१०१।
न्या० स० अन०-अनेन नेष्यते इति किंतु 'सदाधुनेदानींतदानीम् ' ७-२-९६ इति सामान्यकाले भवति । बहुषु कालेष्विति बहुवचनेनावैपुल्यं दर्श्यते । प्रकारे था ॥ ७. २. १०२॥
सप्तम्या इति निवृत्तम् । यथासंभवं विभक्तिः। सामान्यस्य भिधमानस्य भेदान्तरानुप्रवृत्तो भेदः प्रकारः तस्तिन्वर्तमानात् किमयादिसर्वाद्यवैपुल्यबहोः था प्रत्ययो भवति । सर्वेण प्रकारेण सर्वथा, यथा, तथा, उभयथा, अन्यथा, अपरथा, इतरथा । बहोस्तु परत्वाद्धा भवति ।१०२। .
न्या० स० प्रका०-बहोस्तु परत्वादिति 'संख्याया धा' ७-२-१०४ इत्यनेन । कथमित्थम् ॥ ७. २. १०३ ॥
कथमित्थमिति प्रकारे निपात्यते, कथमिति किमस्थापवादस्थम् निपात्यते । केन प्रकारेण कथम्, इत्थमिति इदम् एतदो वा थम् प्रत्यय इदादेशश्च, अनेन एतेन वा प्रकारेण इत्थम् ।१०३।