________________
[ पाद २. सु ९४-९९ ]
श्री सिद्धहेमचन्द्रशब्दानुशासने सप्तमोऽध्यायः
[ २८१
"
' त्रप् च ' ७-२-९२ इत्यनेन सर्वविभक्तिद्वारेणापि
न्या० स० क्वकु० - क्वभवानिति
त्रपायोगे क्वाद्यादेशः । सप्तम्याः
सप्तम्यन्तात् किमव्यादिसर्वाद्यवैपुल्यबहोस्त्रप् भवति । कस्मिन्कुत्र, सर्वत्र, तत्र बहुषु बहुत्र । पकारस्य पुंवद्भावार्थत्वात् बह्वीषु बहुत्र ।९४। कियत्तत्सर्वेकान्यात्काले दा ।। ७. २. ९५ ।
७. २. ९४ ॥
कियत्तत्सर्व एक अन्य इत्येतेभ्यः सप्तम्यन्तेभ्यः काले वाच्ये दा प्रत्ययो भवति । कस्मिन् काले कदा, यदा तदा सर्वदा एकदा अन्यदा । काल इति किम् ? क्व देशे । ९५ । सदाधुनेदानीं तदानीमेतर्हि
।। ७. २. ९६ ॥
सदा, अधुना इदानीं तदानीम् एतर्हि, इत्येते शब्दाः काले वाच्ये निपात्यन्ते । सदेति सर्वशब्दादा प्रत्ययः सभावश्चास्य । सर्वस्मिन् काले सदा, सर्वदेत्यपि पूर्वेण । अधुनेति इदमो धुना प्रत्ययोऽकारादेशश्च । अस्मिन्कालेऽधुना इदानीमिति इदमो दानीं प्रत्ययः इकारादेशश्च, अस्मिन्काले इदानीम्, तदानीमिति तदो दानीम् प्रत्ययः, तस्मिन् काले तदानीम् एतहति इदमोहिः प्रत्ययः एतादेशश्व, अस्मिन्काले एतहि । ९६|
easyo || ७. २. ९७ ॥
सद्यस् अद्य परेद्यवि इत्येतेऽह्नि काले निपात्यन्ते । सद्य इति समानशब्दात् सप्तम्यन्तादह्नि काले वर्तमानात् द्यस् प्रत्ययः समानस्य च सभावो निपात्यते । समानेऽह्नि, सद्यः, अद्य इति अद्येति इदं शब्दात् द्यः प्रत्ययः अकारादेशश्चास्य, अस्मिनहनि अद्य । परेद्यवि इति परशब्दात् एद्यवि प्रत्ययः, परस्मिन्नहनि परेद्यवि, सद्य इति केचित्कालमात्रे निपातयन्ति । ९७। २९८ ॥
S
पूर्वापराधरो तरा न्यान्यतरेतदेद्युस् ॥ ७
पूर्व, अपर, अधर, उत्तर, अन्य, अन्यतर, इतर, इत्येतेभ्यः सप्तम्यन्तेभ्योऽह्नि काले वर्तमानेभ्य एद्युस् प्रत्ययो भवति । पूर्वस्मिन्नहनि पूर्वेद्युः, अपरेद्युः, अधरेद्युः, उत्तरेद्युः, अन्येद्युः, अन्यतरेद्युः, इतरेद्युः ।९८।
उभयात् सूच || ७. २. ९९ ॥
उभयशब्दादह्नि काले द्यस् चकारादेद्युस् च प्रत्ययो भवति । उभयस्मिन्नहनि उभयद्युः, उभयेद्युः । ९९ ।