________________
२८६ ]
बृहवृत्ति-लघुन्याससंवलिते [पाद. २ सू० ११५-११८ } पूर्वावराधरेभ्योऽसस्तातोपुवधश्चैषान् ।। ७. २. ११५॥
पूर्व, अवर, अधर इत्येतेभ्यः प्रत्येक दिन्देशकालवृत्तिभ्यः प्रथमापञ्चमीसप्तम्यन्तेभ्योऽस अस्तात् इत्येतो प्रत्ययौ भवतः, एषां च पूर्वावराधरशब्दानां यथासंख्यं पुर्, अव्, अध् इत्येते आदेशा भवन्ति । पूर्वा दिन्देशः कालो वा रमणीयः पुरो रमणीयम् पुरस्ताद्रमणीयम् । पुर आगतः पुरस्तादामतः, पुरो वसति पुरस्ताद्वसति, अवरा दिग्देशः कालो वा रमणीयः अवो रमणीयम्, अवस्ताद्रमणीयम्, अव आगतः । अवस्तादागतः, अवो वसति, अवस्ताद्वसति । अधरा दिग्देशः कालो वा रमणीयः अधो रमणीयम्, अधस्ताद्रमणीयम् । अध आगतः। अधस्तादागतः, अधो वसति, अधस्तावसति ।११५। परावरात्स्तात् ।। ७. २. ११६ ॥
परअवर इत्येताभ्यां दिग्देशकालेषु वर्तमानाभ्यां प्रथमापञ्चमीसप्तम्यन्ताभ्यां स्वार्थे स्तात्प्रत्ययो भवति । परा दिन्देशः कालो वा रमणीयः परस्ताद्रमणीयम्, परस्तादागतः। परस्तात् वसति, एवमवरस्ताद्रमणीयम्, अवरस्तादागतः, अवरस्तावसति ।११६॥ दक्षिणोत्तराच्चातस् ॥ ७. २. ११७॥
दक्षिण उतर इत्येताभ्यां चकारात्परावराभ्यां च दिग्देशकालेषु वर्तमानाभ्याम् प्रथमापञ्चमीसप्तम्यन्ताभ्यां स्वार्थेऽतस् प्रत्ययो भवति । दक्षिणशादः काले न संभवतीति दिग्देशवृत्तिगुह्यते । दक्षिणा दिग्देशो वा रमणीयः दक्षिणतो रमणीयम्, दक्षिणत आगतः, दक्षिणतो वसति, उत्तरा दिग्देशः कालो वा रमणीयः उत्तरतो रमणीयम्, उत्तरत आगतः, उत्तरतो वसति, परतो रमणीयम, परत आगतः, परतो वसति, अवरतो रमणीम, अवरत आगतः, अवरतो वसति, एवं चावरशब्दस्य चातूरूप्यं भवति । अकारस्तसोऽस्य भेदार्थः, तेनातः 'केहामात्रतसस्त्यच्'-(६-३-१६) इति त्यच न भवति परतो भवं पारतमित्यणेव ।११७।
न्या० स० दक्षि०-चातूरूप्यमिति अवः अवस्तात् अवरस्तात् अवरतः । अधरापराच्चात् ॥७. २. ११८ ।।
अधर, अपर इत्येताभ्यां दिग्देशकाल वृत्तिभ्यां प्रथमापञ्चमीसप्तम्यन्ताभ्यामात्प्रत्ययो भवति चकाराद्दक्षिणोत्तराभ्यां च । अधरा दिग्देशः कालो वा रमणीयः अधराद्रमणीयम्, अधरादागतः, अधराद्वसति । एवं चाधरशब्दस्य भैरूप्यम । अपरा दिग्देशः कालो वा रमणीयः पश्चाद्रमणीयम्, पश्चादागतः,