________________
१४ ]
___ बृहवृत्ति-लघुन्याससंवलिते (पा० १. सू० ३०-३१ ] स्थितमेतत् अपत्यप्रत्ययोऽनपत्यप्रत्ययान्ताया एव प्रकृतेर्भवतीति । आगच्छति चापरे प्रत्यये अग्रेतनो निवर्त्तत एव । ___ अनन्तरादयोऽपीति न केवलं गर्ग इत्येवंरूपा प्रकृतिः परमप्रकृतिरूपेण प्रत्ययमुत्पादयति, गार्गि-गार्ग्य-गाायणादयोऽपि अनन्तरवृद्धयुवानः परम प्रकृतिरूपेणैव प्रत्ययमुत्पादयन्ति । अयमर्थः पुत्रपौत्रादयोऽपि मूल प्रकृतेरेवोत्पन्नैः प्रत्ययैरभिधीयन्ते न तत्तद्विभिन्नप्रत्ययान्तायाः प्रकृतेरूत्पन्नैः। वृद्धाथूनि ॥ ६. १. ३०॥
यून्यपत्ये विवक्षिते यः प्रत्ययः स आद्यात्-वृद्धात् परमप्रकृतेर्यो वृद्धप्रत्ययस्तदन्ताद्भवति । 'आद्यात् ' (६-१-२९) इत्यस्यापवादः । वृद्धादिति यूनि प्रकृतिविधीयते । गर्गस्यापत्यं वृद्धं गार्ग्यः, तस्यापत्यं युवा गाग्र्यायणः । दक्षस्यापत्यं पौत्रादि दाक्षिः, तस्यापत्यं युवा दाक्षायणः, नडस्यापत्यं वृद्धम् नाडायनः, तस्यापत्यं युवा नाडायनिः । यूनीति किम् ? गायः, नाडायनः । आद्यात् इत्येव ? उपगोरपत्यं वृद्धमोपगवः तस्यापत्यं युवा औपविः । गाायणस्य अपत्यं युवा गाायणः, अत्रायन ण् इब् च न भवनि ॥३०॥
न्या० स० वृद्धाद्यनि-यूनि प्रकृतिरिति यूनि प्रत्यये विधातव्ये वृदप्रत्ययान्त एवाद्य इत्यर्थः। तस्याप्यपत्यं युवा औपगविरति पुनर्वृद्धपत्ययान्तलक्षणात् परमप्रकृतेरिञ् नेवन्तादन्यो युवार्थप्रत्यय इत्यर्थः।
अत्रायनण् इस च न भवतीति, ननु 'वृद्धाधुनि' ६-१-३० इति वचनात् वृद्धप्रत्ययान्तादेव यूनि प्रत्ययो, न तु युवप्रत्ययान्तादित्यत्र प्राप्तिरेव नास्ति ? सत्यं, अत्र औपगव्यादि यत् युवसंज्ञमपत्यं तत्पौत्रादि वृद्धमिति सामान्येन भणनात् वृद्धमप्यस्तीति प्राप्तिः ।
अत इञ् ॥ ६. १. ३१ ।।
ङसोऽपत्य इति वर्तते, अकारान्तात् ङसन्तान्नाम्नोऽपत्येऽर्थे इबू प्रत्ययो भवति, अणोऽपवादः । दक्षस्यापत्यं दाक्षिः, अस्यापत्यम् इः। अत इति किम ? शौभंयः, कैलालपः,। केचित्त शुभंयाकोलालपाशब्दाभ्यामणमपि नेच्छन्ति
कथं 'त्यजस्व कोपं कुलकीर्तिनाशनम्, भजस्व धर्म कुलकीर्तिवर्धनम् ॥ प्रसीद जीवेम सबान्धवा वयं, प्रदीयतां दाशरथाय मैथिली ॥१॥ __ तस्येदमिति विवक्षायामण भविष्यति, अपत्यविवक्षायां तु दाशरथिग्त्येिव भवति । अथ काकबकशुकादेः कस्मान्न भवति । जात्यैवापत्यार्थस्य पौत्रादेरनन्तरस्य चाभिहितत्वात्, यत्र त्वर्थप्रकरणादेविशेषप्रतीतिरस्ति तत्र भवत्येव, यथा कुतश्वरति मायूरिः केन कापिञ्जलिः कृशः, एतेन काक्यादिभ्य