________________
[पाद. १. सू. २९] श्रीसिद्धहेमचन्द्रशब्दानुशासने षष्ठोऽध्यायः
[ १३ प्रत्यया भवन्ति । उपगोरपत्यमोपगवः । धानपतः, दैत्यः, औत्सः, स्त्रण पौंस्नः । अपत्य इत्यपत्यमानं विवक्षितं न लिङ्गसंख्यादि, तेन दयोबहुषु स्त्रीलिङ्गादौ च भवति । औपगवो, औपगवाः, औपगवी इत्यादि । ङस इति किम् ? देवदत्तेऽपत्यम् । अपत्य इति किम् ? भानोरयं भानवीयः, श्यामगचीयः । 'तस्येदम्' (६-३-१५९) इत्येवाणादिसिद्धौ अपत्यविवक्षायां तदपवादबाधनार्थं बचनम्, तेन भानोरपत्थं भानवः, श्यामगवः । अत्र * दोरीयः' (६-३-३१) इत्तीयो न भवति । कम्बल उपगोः अपत्यं देवदत्तस्येत्यत्र तु असामर्थ्यान्न भवति ॥२८॥
न्या. स०-सोऽपत्ये -पष्ट्यन्तादिति उस्ग्रहणस्य षष्ठ्युपलमणवात् षष्ठी लभ्यते । संख्यादिति-आदिशब्दाद्विद्यमानाविद्यमानादि, ब्राह्मणत्वादि वा ।
श्यामगवीय इति-श्यामा चासौ गौश्च ‘गोस्वत्पुरुषाद' ७-३-१०५ बहुव्रीहिर्वा ।
तदपवादबाधनार्थमिति-तस्य तस्येदमित्यणोऽपवादो यो दोरीय इत्यादिस्तस्व बाधनार्थमन्यथा दुसंज्ञकादपत्यविवक्षायामपि ईय एव स्यात् ।
असामर्थ्यान्न भवतीति-अयमर्थः उपगोरित्यस्य कम्बलेन संबन्धित्यान्न तत्संबन्धित्वेनापत्ये वक्तुमय् प्रत्ययः समर्थः ।
आद्यात् ॥ ६. १. २९ ॥
अपत्ये येऽणादयःप्रत्ययास्ते आद्यात् परमप्रकृतेरेव भवन्ति । पौत्राद्यपत्य सर्वपूर्वजानामापरमकृपतेः पारंपर्येण संबन्धादपत्वं भवति, तत्र तैस्तैः संबन्धविवक्षायामनन्तरवृद्धयुवभ्योऽपि प्रत्ययः प्राप्नोतीति नियमार्थ भारम्भः । उपगोरपत्यमनन्तरं वद्धं बा औपगवः, तस्याप्यौपगविः, औपगवेरप्योपगवः, गर्गस्यापत्यं पौत्रादि गार्ग्यः, गार्गरपि गार्ग्यः, गार्ग्यस्यापि गार्ग्यः गाायणस्यापि मार्ग्यः । अनन्तरादयोऽपि परमप्रकृतिरूपेषवापत्ये प्रत्ययमुत्पादयन्ति ॥२९॥
न्या० स० आद्यात्-परम परमप्रकृतेरेवेति गर्गादिरूपान्न गागिरित्यादिरूपादित्यर्थः ।
पौत्राद्यपत्यमिति ननु यस्यैवाजत्वेनानन्तरः संबन्धः तस्यैव तदफ्त्यमुच्यते, अतस्तस्मादेवापत्यप्रत्ययो युज्यते नान्यस्मादित्याशङ्का ।।
तत्र तैस्तैरिति तत्र परम प्रकृती खस्तैर्गानिप्रभृतिभिरपत्थैः सह संबन्धविवक्षायामित्यर्थः ।
निषमार्थ भारम्भ इति अयमर्थः गर्गस्यापत्यमनन्तरं गार्गिरितीषन्तात् , गर्गस्यापत्वं वृद्ध गार्ग्य इति यान्तात् , गार्ग्यस्यापत्यं युवा गार्यायण इत्यायनणन्ताच्चापत्यप्रत्ययो मा भूत् किन्तु या मूलप्रकृतिरूपा गर्गादिलक्षणा तस्या एवाऽपरोपि अपत्यप्रत्ययः समुत्पद्यते नान्यापत्यप्रत्ययान्तायाः, युवार्थापत्यप्रत्ययं प्रति च वृद्धार्थापत्यप्रत्ययान्तैव प्रकृतिराद्या वक्ष्यते, ततः