________________
१२ ]
बृहद्वृत्ति-लघुन्याससंवलिते [पाद. १. सू. २५-२८ ] पौवंशाल इति-पूर्वा चासौ शाला च 'पूर्वापरप्रथम' ३-१-१०३ इति समासः ततः पूर्वशालायां भवः, 'भवे' ६-३-१३३ (इति) अण् , यदा तु पूर्वस्यां शालायां भवः तदा 'दिक् पूर्वादनाम्नः ६-३-२३ इति णः, 'दिगधिकम् ३-१-९८ इति समासश्च ।
पाश्चनापितिरिति-पश्चानां नापितानामपत्यं 'अत इम् ' ६-१-३१
वैनाविक इति-अस्मिन्नेव वाक्ये 'नावः' ७-३-१०४ इत्यद् समासान्तः 'तरति' ६-४-९ इत्यनेन इकण च । प्रागवतः स्त्रीपुंसाद् नञ् स्नञ् ॥ ६. १. २५॥
प्राग्वतो येऽस्तेिप्वनिदम्यणपवादे च स्त्रीशब्दात् पुंस्शब्दाच्च यथासंख्यं नञ् स्नञ् प्रत्ययो भवतः। स्त्रिया अपत्यं खणः, पौंस्नः, स्त्रोणां समूहः स्त्रणम्, पौंस्नम्, स्त्रीषु भवं स्त्रैणम्, पौंस्नम्, स्त्रीणामियं स्त्रैणी, पौंस्नी, स्त्रीणां निमित्तं संयोग उत्पातो वा स्त्रैणः, पौंस्नः, स्त्रीभ्यो हितं स्त्रणम्, पौंस्नम् । प्राग्वत इति किम् ? स्त्रिया अहं कृत्यम्, स्त्रीया तुल्यं वर्तत इति वा, स्त्रीवत्, पुवत्, जकारो जित्कार्यार्थः ॥२५॥
न्या० स०- प्राग्वतः–'प्रागवतः' ६-१-२५ इति तस्याहे । ७-१-५१ इति विहितादित्यर्थः, वत इति प्रत्ययस्यावधित्वेऽपि न प्रत्यय इमो प्रत्ययो संभवत इति वच्छन्देन तदर्थो निर्दिश्यते । त्वे वा ॥ ६. १. २६ ॥
स्त्रीशब्दात्पुसशब्दाच्च त्वे त्वप्रत्ययविषये भावे यथासंख्यं नञ् स्नन् प्रत्ययो वा भवतः। स्त्रिया भावः स्त्रैणं स्त्रीत्वं स्त्रीता, पौस्नम्, पुंस्त्वम्, पुस्ता, पुनर्वाग्रहणं प्रत्ययविकल्पार्थम् ॥२६॥
गोः स्वरे यः ॥ ६. १. २७ ॥
गोशब्दात स्वरादितद्धितप्रसले यः प्रत्ययो भवति । गोरिदं गव्यम, गोरपत्यं गव्यः, गवि भवं गव्यम्, गौर्देवतास्य गव्यः, गवा चरति गव्यः । स्वर इति किम् ? गोभ्यो हेतुभ्य आगतं गोरूप्यम्, गोमयम् ॥२७॥ ___ न्या. स० - गोः-गोरपत्यमिति-यदा क्रियते तदा 'चतुष्पाद्य एयन्' ६-१-८३ तस्य बाधकः । डसोऽपत्ये ॥६. १. २८॥ अणादयोऽनुवर्तन्ते । सः षष्ठयन्तान्नाम्नोऽपत्येऽर्थे यथाभिहितमणादयः