________________
[ पाद. १. सू. २३-२४] श्रीसिद्धहेमचन्द्रशब्दानुशासने पष्ठोध्यायः [११
स्थामन्शब्दात्प्राजितीयेऽर्थे अः प्रत्ययो भवति । अश्वत्थाम्नोऽपत्यमश्वस्थामः ॥२२॥
न्या० स० अः स्थाम्न:-अश्वत्थाम्न इति, अश्व इव तिष्ठति 'मन् वन्क्वनिप्' ५-१-१४७ पृषोदरादित्वात् सस्य तः, इष्टिवशात्तदन्ताद् विधिः, एवमुत्तरत्र ।
लोग्नोऽपत्येषु ॥ ६. १. २३ ॥ लोमन्शब्दात्प्राजितीयेऽपत्यलक्षणेऽर्थे अःप्रत्ययो भवति । उदुलोम्नाऽपत्यानि उडुलोमाः, शरलोमाः, उडलोमैः, शरलोमैः। अपत्येष्विति बहुवचनात एकस्मिन्नपत्ये द्वयोश्च वाह्वादित्वादिओव, औडुलोमिना औडुलोमिभ्याम् ।।२३।। दिगोग्नपत्ये यस्वगदेलुबद्धिः ॥ ६. १. २४ ॥
अपत्यादन्यस्मिन् प्रागजितीयेऽर्थे उत्पन्नस्य द्विगोः परस्य यकारादेः स्वरादेश्च प्रत्ययस्य सकृल्लुप भवति न तु द्विः । द्वयो रथयाद्विरथ्या वायं वोढा द्विरथः । — रथात्सादेश्च वाढङ्ग' इत्यर्थे ' यः' (६-३-१७६) इति यः । पञ्चसु कपालेषु पञ्चकपाल्यां वा सम्कृतः पञ्चकपालः, पञ्चेन्द्राण्यः पञ्चेन्द्राणि वा देवतास्य पञ्चेन्द्रः, चतुगेऽनयोगान् चतुरनुयोगो वाधोते चतुरनुयोगः । एवं त्रिवेदः । एष्वण् । द्विगोरिनि किम् ? पूर्वशालायां भवः पौर्वशालः, त्र्यवयवा विद्या त्रिविद्या तामधीते विद्यः । अनपत्य इति किम् ? द्वैमातुरः, पाञ्चनापितिः। यस्वरादेरिति किम् ? पञ्चभ्यो गर्गेभ्य आगतं पञ्चगर्गमयम् । अद्विरिति किम् ? पञ्चसु कपालेषु संस्कृतं पञ्चकपालं तस्येदं पाञ्चकपालम् । एवं वेदम् । प्रागजितादित्येव ? द्वो रथो वहति द्विरथ्यः, 'वहति '-(७-१-२) इत्यादिना यः । द्वाभ्यां नौभ्यां तरति द्वैनाविकः ।।२४।। ___ न्या० स० द्विगोर०-द्विरथ इति-यदा द्वयो रथयोोढेति वाक्यं तदा तद्विविषये द्विगुः, यदा तु द्विरथ्या वेति तदा समाहारविषये द्विगुः यथासंभवं 'ह्यादेः' २-४-९५ इति को निवृत्तिः, एवमन्यत्रापि ।
अद्विरिति किमिति-अयमर्थः ननु अद्विरिति विनापि द्वितीय प्रत्ययस्य लुब् न भविष्यति. लुप्रस्य प्रथमप्रत्ययस्य स्थानिवेन द्विगोर्व्यवधायकत्वात्तत् किमद्विहणेन ? नैवं, 'द्रेषणः' ६-१-१२३ इत्यत्र यौधेयस्य भर्गादिपाठात प्रत्ययलोप इति न्यायम्यानित्यत्वं, भर्गादिपाठो हि यौधेयात् शस्त्रजीविसंघविवक्षायां 'यौधेयादेरञ्'७-३-६५ इति स्वार्थाबन्तात् 'गोत्राददण्ड' ६-३-१६९ इति प्राप्तस्याउको बाधकः, 'संघघोष' ६-३-१७२ इत्यण् यथा स्यान्नाकवित्येवमर्थः, यदि च प्रत्ययलोप इति न्यायः स्यात्तदा भर्गादिपाठो व्यर्थः स्यात् ।