________________
२७२ ] बृहद्वृत्ति-लघुन्याससंवलिते [पाद. २ सू० ६३-६८ ] सुखादेः ॥ ७. २. ६३॥
सुखादिभ्यो मत्वर्थे इन्नेव प्रत्ययो भवति । सुखी, दुखी।।
सुख, दुःख, तृप्र, कृच्छ, अस्र, अलीक, कृपण, सोढ, प्रतीप, प्रणय, हस्त, (हल) आस्र, कक्ष, सील इत्येके इति सुखादिः ।६३१ मालायाः क्षेपे ॥ ७. २. ६४ ॥
मालाशब्दात्क्षेपे गम्यमाने मत्वर्थे इन्नेव प्रत्ययो भवति । माली । क्षेप इति किम ? मालाकान, मालाशब्द: शिखादिः। ततः क्षेपे मतुनिवृत्त्यर्थ वचनम् ।६४० धर्मशीलवर्णान्तात् ।। ७. २. ६५ ॥
धर्मशीलवर्ण इत्येतदन्तान्मत्वर्थे इन्नेव भवति । मुनिधी, यतिशीली, ब्राह्मणवर्णी ॥६५॥ बाहादेबलात् ॥ ७. २. ६६ ॥
बाहु-ऊरुपूर्वोदलान्तानाम्नो मत्वर्थे इन्नेव भवति । बाहुबली, ऊरुबली ।६६ मन्माब्जादेर्नाम्नि ।। ७. .२ ६७ ॥
मन्नन्तेभ्यो मान्तेभ्योऽब्जादिभ्यश्च मत्वर्थे इन्नेव भवति नाम्नि समुदायश्रेत्कस्यचिन्नाम भवति । मन्नन्त, दामिनी, सामिनी, प्रथिमिनी, महिमिनी, मिणी (वमिणी)। कमिणी, मान्त-प्रथमिनी, भामिनी, कामिनी, यामिनी, सोमिनी, अब्जादि, अब्जिनी, कमलिनी, सरोरुहिणी, सरोजिनी, अम्भोजिनी, राजीविनी, अरविन्दिनी, पङ्कजिनी, पुटकिनी, नालीकिनी, मृणालिनी, बिसिनी, तामरसिनी, यवासिनी । नाम्नीति किम् ? सामवान्, सोमवान्, अब्जवान् ।६७।
न्या० स० मन्म-प्रत्ययाप्रत्ययोः इति न्यायात् मन्नन्तेभ्य इत्युक्तेऽपि मन्प्रत्ययान्तेभ्य इति दृश्यं अब्जिन्यादयः कमलिनीवाचकाः यवासिनी त्वौषधिः । हस्तदन्तकराज्जातौ ॥ ७. २. ६८ ॥
हस्त दन्त कर इत्येतेभ्यो मत्वर्थे इन्नेव भवति समुदायेन चेज्जातिरभिधीयते । हस्तोऽस्यास्तीति हस्ती, दन्ती, करी। जाताविति किम् ? हस्तवान्, दन्तवान् करगन् नरः । ६८॥
न्या० स० हस्त०-ननु हस्ती इत्यादिभिर्जातिमानेवाभिधीयते न जातिस्तत्कथमनेन ? सत्यं, जातिमत्युच्यमाने गोणवृत्त्या जातिरप्युच्यते, गौणमुख्यन्यायस्तु मुख्यया वृत्त्या