________________
[ पाद. २. सू. ६९-७१ ] श्रीसिद्धहेमचन्द्र शब्दानुशासने सप्तमोऽध्यायः
[ २७३
इन्प्रत्ययान्तेन हस्त इत्यादिना प्रतिपादनासंभवान्नाद्रियते, यद्वा निर्विशेषं न सामान्यं भवेच्छशविषाणवदिति न्यायात् समुदायेन चेज्जातिरभिधीयते इत्युक्तेऽपि जातिमती व्यक्तिरुच्यत इति द्रष्टव्यं निर्विशेषायास्तस्या जातेः असत्कल्पत्वात् ।
वर्णाद्ब्रह्मचारिणि ॥ ७. २. ६९ ।।
वर्णशब्दान्मत्वर्थे इन् भवति ब्रह्मचारी वेदभिधेयो भवति । वर्णशब्दो ब्रह्मचर्यंपर्यायः, वर्णो ब्रह्मचर्यमस्यास्ति वर्णी, ब्रह्मचारीत्यर्थः । अन्ये तु वर्णशब्दो ब्राह्मणादिवर्णवचनः । तत्र ब्रह्मचारीत्यनेन शूद्रव्यवच्छेदः क्रियते इति मन्यन्ते तेन त्रैवर्णिको वर्णीत्युच्यते । स हि विद्याग्रहणार्थमुपनीतो ब्रह्म चरति न शूद्र इति । ब्रह्मचारिणीति किम् ? वर्णवान् । ६९ ।
न्या० स० वर्णात्–त्रैवर्णिक इति त्रिषु वर्णेषु भवः अध्यात्मादिभ्य इतीकण विधान सामर्थ्यात् 'द्विगोरनपत्य' ६-१-२४ इत्यनेन न लुप्, प्रयोजनम् ' ६-४-११७ इति वेणू प्राजितीयत्वाभावात् 'द्विगोरनपत्ये ' ६-१-२४ इत्यस्य लुपः प्रसङ्ग एव नास्ति । विद्याग्रहणार्थमिति एवमुक्तेऽपि वेदविद्याग्रहणार्थमिति व्याख्येयम् ।
पुष्करादेर्देशे ॥ ७. २. ७० ॥
पुष्करादिभ्यो मत्वर्थे इन्नेव भवति देशेऽभिधेये । पुष्करिणी, पद्मिनी । देश इति किम् ? पुष्करवान हस्ती ।
पुष्कर, पद्म, उत्पल, तमाल, कुमुद, कैरव, नल, कपित्थ, बिस, मृणाल, कर्दम, शालूक, विवर्ह, करीष, शिरीष, यवास, यबाष, यव, माष, हिरण्य, तट, तरङ्ग, कल्लोल इति पुष्करादिः । कथं कुमुद्वती सरसी कुमुद्वान् हृदः नड्वान् नड्वलमिति ? ' नडकुमुद '– ( ६-२-७४ ) इत्यादिना चातुरर्थिकेन मतुना भविष्यति ॥७०।
न्या० स०—पुष्क०–पुष्करिणी, पद्मिनी च देशविशेषौ यवासशब्दोऽब्जादिगणे पुष्करादिगणे चाधीतस्तत्रौषधौ पूर्वसूत्रं प्रवर्त्तते देशविशेषे त्विदमिति विवेकः । कथमिति अत्र गणपाठात् कुमुदिनी इत्येव प्राप्नोतीत्याशङ्का ।
।। ७. २. ७१ ।।
सूक्तसाम्नोरीयः
सूक्ते सामनि चाभिधेये मत्वर्थे ईयः प्रत्ययो भवति, मत्वादीनामपवादः । अच्छावाक् शब्दोऽत्र सूक्तेऽस्ति अच्छावाकीयम्, मैत्रावरुणीयम्, साम्नि, यज्ञायज्ञीयम्, अशनापिपासीयम्, वारतन्तवीयम् साम । अथास्यवामीयं सूक्त' कयानश्र्चित्रीयं सामेत्यत्र ' ऐकार्थ्य' ( ३-२-८) इति विभक्तिलोपः कथं न भवति उच्यते, अस्यवामादयः सूक्तसामस्थानामनुकार्याणामखण्डा एवानु