________________
'पाद. २, सू. ५८-६२] श्रीसिद्धहेमचन्द्रशब्दानुशासने सप्तमोऽध्यायः [२७१ एकादेः कर्मधारयात् ॥ ७. २. ५८ ॥
एकादेः कर्मधारयादकारान्तान्मत्वर्थे इकण प्रत्ययो भवति । एको गौरेकगवः सोऽस्यास्त्यैकगविकः, ऐकशतिकः ऐकसहस्रिकः । कर्मधारयादिति किम् ? एकस्य गौरेकगवः सोऽस्यास्ति इति न भवति । अत इत्येव ? एकविंशतिरस्यास्तीति न भवति । कथमेकद्रव्यवत्त्वादिति । एकेन द्रव्यवत्त्वमिति समासे भविष्यति ॥५८। । . न्या स० एका०-समासे इति । 'ऊनार्थपूर्वाद्यैः' ३-१-६७ इत्यनेन । सर्वादेरिन् ॥ ७. २. ५९ ॥
सर्वादेरकारान्तात्कर्मधारयान्मत्वर्थे इन् प्रत्ययो भवति । सर्वं धनं सर्वधनम् तदस्यास्तीति सर्वधनी, सर्वबीजी, सर्वकेशी नटः ।५९।। प्राणिस्थादस्वाङ्गाद्वन्दग्निन्द्यात् ॥ ७. २. ६० ॥
प्राणिस्थोऽस्वाङ्गवाची अकारान्तो यो द्वन्द्वः समासो यश्च रुग्वाची निन्धवाची च शब्दस्तस्मान्मत्वर्थे इन् प्रत्ययो भवति । द्वन्द्व. कटकवलयिनी। शंखनपुरिणी । रुक्-कुष्टी, किलासी, निन्द्य, ककुदावर्ती, काकतालुकी । प्राणिस्थादिति किम् ? पुष्पफलवान् वक्षः । अस्वाङ्गादिति किम् ? स्तनकेशवती। अत इत्येव ? चित्रकललाटिकावती । विपादिकावती । काकतालुमती । ' अतोऽनेकस्वरात् ' (७-२-६) इत्येव सिद्ध इकादिबाधनार्थं वचनम् ।६०।
न्य० स० प्राणि-शङ्खनूपुरिणीति अनुपरतो वो यस्य यस्माद् वा तदनुपरतरवं तस्य पृषोदरादित्वान्नूपुरादेशः 'श्वशुर ' ३-१-१२३ इति निपात्तनाद् वा। वातातीसारपिशाचात्कश्वान्तः ॥ ७. २. ६१ ॥
वात, अतीसार, पिशाच इत्येतेभ्यो मत्वर्थे इन् प्रत्ययो भवति ककारश्चान्तः । वातातीसारयो रुक्त्वात् पूर्वेणेन् सिद्धः कार्थमुपादानम् । पिशाचस्य तूभयार्थम् । वातकी, अतीसारकी, पिशाचकी ।६१॥
न्या० स० वाता-अत्र एकदेशविकृतेति न्यायादतिसारकीत्यपि । पूरणादयसि ।। ७. २. ६२ ।
पूरणप्रत्ययान्ताद्वयसि गम्यमाने मत्वर्थे इन्नेव प्रत्ययो भवति । पञ्चमो • मासः संवत्सरो वास्यास्तीति पञ्चमी बालकः दशमी करभः ।६२।
न्या० स० पूर०-ननु ' अतोऽनेकस्वरात् ' ७-२-६ इत्यनेनेन् सिद्ध एव किमनेन ? सत्यं, इन्नेवेति नियमार्थ तेन हि इन विधाने इकोऽपि स्यादिति ।