________________
२७० ] बृहद्वृत्ति-लघुन्याससंवलिते [पाद. २ सू० ५५-५७ ] प्रशस्तं रूपमस्यास्ति रूप्यो गौः। रूप्यः पुरुषः, आहतं रूपमस्यास्ति रूप्यः कार्षापणः । निघातिकाताडनाद्दीनारादिषु यद्रूपमुत्पद्यते तदाहेतं रूप्यम् । प्रशस्ताहतादिति किम् ? रूपवान् । प्रशंसायां मतुरपि भवति । रूपवती कन्या। आहते न भवति इतिकरणात् । कथं रूपिणी कन्या रूपिको दारक इति ? व्रीह्यादित्वाद्भविष्यति। आ यादित्यस्य पूर्णोऽवधिः अतः परं मतुर्नास्ति ।५४। पूर्णमासोऽण् ।। ७. २. ५५ ।।
पूर्णमास्शब्दान्मत्वर्थेऽण् प्रत्ययो भवति । पूर्णो माश्चन्द्रमा अस्यामस्ति पौर्णमासी ।५५। गोपूर्वादत इकण् ॥ ७. २. ५६ ॥
गोशब्दपूर्वादकारान्तान्मत्वर्थे इकण प्रत्ययो भवति, मत्वादीनामपवादः । गौशतिकः, गौसहस्रिकः । अत इति किम् ? गोविंशतिमान् । कथं गौशकटिकः ? शकटीशब्देन समानार्थः शकटशब्दोऽस्ति । शकटीशब्दात्तु मतुः अनभिधानान्न भवति । के चित्तु गवादेरनकारान्तादपीच्छन्ति । गवां समूहो गोत्रा सा विद्यते यस्य गौत्रिकः, गावो क्यांसि चास्य सन्ति गौवयसिकः ।५६। __ न्या० स० गोपू०-कथमिति अदन्ताद्विहित इकण् कथं शकटीशब्दाद् भवतीत्याशयः शकटीशब्दात्त्विति शकटीशब्दात्तावददन्तत्वाभावादिकण् न भवति, परं मतुर्भवति नो वेत्याहअनभिधानादिति । निष्कादेः शतसहस्रात् ।। ७. २. ५७ ॥
निष्को य आदिस्ततः परं यच्छतं सहस्रं च तदन्तान्मत्वर्थे इकण् प्रत्ययौ भवति । नैष्कशतिकः, नैष्कसहस्त्रिकः । निष्कादेरिति किम् ? शतो, सहस्री। आदिग्रहणात्सुवर्णनिष्कशतमस्यास्तीत्यत्र न भवति ।५७।
न्या० स० निष्का-निष्कश्चासावादिश्च बहुव्रीहिर्वा । · नन बहुव्रीहौ सुवर्णनिष्कशतशब्दादपि प्राप्नोति ? सत्य, अत्रादिशब्दोऽवयवार्थः निष्कशब्दश्च शतसहस्रशब्दयोरवयवः समास एव सति भवति वाक्ये तस्य स्वातन्त्र्यात. समासश्च सुवर्णनिष्कशब्देन शतशब्देन चारभ्यत इति शतशब्दान्तसमासापेक्षया सुवर्णनिष्कशब्दस्यैवावयवत्यं, न तु निष्कशब्दस्येति सुवर्णनिष्कशतशब्दान्नेकणू, अथवात्रादिशब्दः प्राथम्यार्थोऽपि व्याख्यायते प्राथम्यं च सुवर्णनिष्कशतशब्दे शतशब्दापेक्षया निष्कशब्दस्यास्त्येवेतीकण प्राप्नोतीति तन्निवृत्त्यर्थं सावधारणं व्याख्येयं निष्क एवादिर्यस्येति अत्र तु न निष्क एवादिः किंतु सुवर्णशब्दोऽपीति न भवति, एवमुत्तरत्रापि ।
आदिग्रहणादित्यादि सुवर्णस्य निष्काशस्तेषां शतमिति विग्रहः ।