SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ [ पाद २. सू. ४९-५४] श्रीसिद्धहेमचन्द्रशब्दानुशासने सप्तमोऽध्यायः [ २६९ आमयावी, आमयवान् ।४८० स्वानमिन्नीशे ॥ ७. २. ४९ ।। स्वशब्दान्मत्वर्थे ईशे वाच्ये मिन् प्रत्ययो भवति दीर्घश्चास्य । स्वमस्यास्तीति स्वामी। ईश इति किम् ? स्ववान् ।४९। गोः ॥ ७. २. ५०॥ ___ गोशब्दान्मत्वर्थे मिन् प्रत्ययो भवति । गावोऽस्य सन्ति गोची, मतुश्चगोमान् । पूज्य एच मिनमिच्छन्त्यन्ये ।५०। ऊर्जा विन्वलावश्चान्तः ॥ ७. २. ५१॥ ऊशब्दान्मत्वर्थे विन्वल इत्येतो प्रत्ययौ भवत्तः तत्संनियोगे चास्यास चान्तो भवति । ऊर्जस्वी, ऊर्जस्वलः, मतुश्च-ऊर्वान्, कथमूर्जस्वान् ? ऊर्जयतेः अस्प्रत्ययान्तस्य मतौ ।५१॥ ___ न्या० स० ऊर्जा०-अस्प्रत्ययान्तस्येति यो ऊर्जयतेरसन्तस्यास्तपोमायेत्यनेन असन्तत्वाद्विन सिद्ध एव किमत्र सूत्रे ऊर्जुशब्दाद् विविधानेन ? । ____सत्य, असन्तस्य ऊर्जयतेनियत एव प्रयोग इति, ततोऽनेन विनविधानं, एतच्च ऊर्जशब्दाद् विविधानेनैव ज्ञाप्यते । तमिस्राणेवज्योत्स्ना ॥ ७. २. ५२ ॥ तमिस्रार्णवज्योत्स्ना इत्येते शब्दा निपात्यन्ते । तमिस्रति तमश्शब्दाद्रः उपान्त्यस्य चेत्वम् । तमोऽत्रास्तीति तमिस्रा रात्रिः, तमिस्रं तमःसमूहः, तमिस्राणि गुहामुखानि । मतुश्च । तमस्वान्, अर्णवेति अर्णसो वः प्रत्ययः अन्त्यस्य च लोपः, अर्णवः समुद्रः । ज्योत्स्नेति ज्योतिःशब्दान्नः प्रत्यय उपान्त्यलोपश्च निपात्यते। ज्योत्स्ना चन्द्रप्रभा । अन्यत्र ज्योतिष्मती रात्रिः निपातनस्येष्टविषयत्वात् ।५२। गुणादिभ्यो यः ॥ ७. २. ५३ ॥ गणादिभ्यो मत्वर्थे यः प्रत्ययो भवति । गुण्यः पुरुषः, हिम्यः पर्वतः, मतुश्च-गुणवान्, हिमवान् । कथं को गुणिनो नार्चयेत् इति इन् ? शिखादित्वेन भविष्यति । मुणादयः प्रयोमगम्याः ॥५३॥ रूपात्प्रशस्ताहतात् ।। ७. २. ५४ ॥ प्रशस्तोपाधिकादाहतोपाधिकाच्च रूपान्मत्वर्थे यः प्रत्ययो भवति ।।
SR No.032130
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 03
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy