________________
२६८ ]
बृहवृत्ति-लघुन्याससंवलिते [पाद. २ सू० ४४-४८ ] मण्यादिभ्यः ॥ ७. २. ४४ ॥
मण्यादिभ्यो मत्वर्थे वः प्रत्ययो वा भवति मतुश्च, योगविभागाद्वेति निवृत्तम् । मणिवः, मणिमान् । सिध्मादिपाठात् मणिलः, हिरण्यवः, हिरण्यवान्, बिम्बावम्, कुररावम्, कुरबावम् । 'घञ्युपसर्गस्य बहुलम्' ( ३-२-८६ ) इति बाहुलकाद्दीर्घः । राजीवम्, इष्टकावम्, गाण्डिवम, गाण्डीवम्, अजकावम्, बिम्बावम् इत्यादयो रूढिशब्दाः । रूढिशब्दविषये च मतुर्न भवति । विषयान्तरे तु भवत्येव । बिम्बवानित्यादि, मणि, हिरण्य, बिम्ब, कुरर, कुरव, राजी, इष्टका, गाण्डि, गाण्डी, अजका इति मण्यादयः प्रयोगगम्याः ।४४। हीनात्स्वाङ्गादः ॥ ७. २. ४५ ॥
हीनोपाधिकात् स्वाङ्गान्मत्वर्थे अः प्रत्ययो भवति । खण्डः कर्णोऽस्यास्ति कर्णः, छिन्ना नासिकास्यास्ति नासिकः । हीनादिति किम् ? कर्णवान् नासिकावानित्येव भवति ।४५। अभ्रादिम्यः ॥ ७. २. ४६ ॥
अभ्र इत्येवमादिभ्यो मत्वर्थे अः प्रत्ययो भवति यथादर्शनं मतुश्च । अभ्राण्यस्मिन् सन्ति अभ्र नभः, अस्यिस्य सन्ति अर्शसो देवदत्तः, उरसः । उरस्वान् ।
___ अभ्र, अर्शस्, उरस्, तुन्द, चतुर, पलित, जटा, घाटा, कर्दम, काम, बल, घटा, अम्ल, लवण इत्यभ्रादिराकृतिगणः ।४६। अस्तपोमायामेधास्रजी विन् ॥ ७. २. ४७ ॥
असन्तेभ्यस्तपस्मायामेघास्रज् इत्येतेभ्यश्च मत्वर्थे विन् प्रत्ययो भवति मतश्च । असन्त, यशस्वी, यशस्वान्, सरस्वी, सरस्वान्, सरस्वती, एवं तेजस्वी, वर्चस्वी, तपस्वी, तपस्वान् । असन्तत्वेनैव सिद्ध तपसो ग्रहणं ज्योत्स्नाद्यणा बाधो माभूदित्येवमर्थम् । मायावी, मायावान्, मायी, मायिक इति व्रीह्यादिपाठात् । मेधावी, मेधावान्, स्रग्वी, स्रग्वान् ।४७।
न्या० स० अस्त०-सरस्वतीति यदा नदी तदा सरः सरणं गमनमस्यास्तीति वाक्यं, यदा तु भारती तदा सरो मानसाद्यस्यास्तीति । आमयाबीघेश्च ॥ ७. २.४८॥ आमयशब्दान्मत्वर्थे विन् प्रत्ययो दीर्घश्चामयशब्दस्य भवति मतुश्च ।