________________
[ पाद, २. सू ३८-४३ | श्रीसिद्धहेमचन्द्र शब्दानुशासने सप्तमोऽध्यायः
[ २६७
प्रकृत्यन्तरं वा । द्युद्रुशब्दाभ्यां मत्वर्थे मः प्रत्ययो भवति । द्योबुर्वास्यास्मिन्वास्तीति मः । द्रूणि दारूण्यस्यास्मिन्वा सन्ताति द्रुमः । रूढिशब्दाविमौ रूढिविषये च मतुर्न भवति । अन्यत्र तु मतुरेव । द्युमान्, द्रुमान् । ३७। काण्डाण्डभाण्डादीरः ॥ ७. २. ३८ ॥
काण्ड आण्ड भाण्ड इत्येतेभ्यो मत्वर्थे ईर : प्रत्ययो भवति मतुश्च । काण्डीरः, काण्डवान्, आण्डीरः, आण्डवान्, भाण्डीरः, भाण्डवान् । आण्डौ मुकौ |३८|
न्या० स० काण्डा०–आण्डीर इति एकदेशेति न्यायात् श्लिष्टनिर्देशाद्वा अण्डीर इत्यपि गौडौ ।
कच्छवा डुरः ।। ७. २. ३९ ॥
कच्छूशब्दान्मत्वर्थे डुरः प्रत्ययो भवति । कच्छुरः, कच्छूमान् । ३९। दन्तादुन्नतात् ।। ७. २. ४० ।।
उन्नतत्वोपाधिकाद्दन्तशब्दान्मत्वर्थे डुरः प्रत्ययो भवति । उन्नता दन्ता अस्य सन्ति दन्तुरः । उन्नतादिति किम् ? दन्तवान् |४०|
न्या" स० दन्ता०-दन्तवानिति निर्गतत्वमुन्नतत्वं, प्रमाणातिरेकस्तु वृद्धिरिति भिन्नत्वं, तत्रोन्नतत्वे दन्तुरः, विवृद्धिविवक्षायां तु 'स्वाङ्गाद् विवृद्धात् ' ७-२-१० इति ' आयात् ' ७-२-२ इति च दन्तिलो, दन्ती, दन्तिको, दन्तवानिति यथायोगं भवति, उन्नतार्थो मना नगम्यते इत्यत्र मतुर्न भवति ।
मेधास्थान्नरः ॥ ७. २. ४१ ॥
मेघारथ इत्येताभ्यां मत्वर्थे इरः प्रत्ययो वा भवति, वावचनाद्यथाप्राप्तिमिकेनौ आ यादिति मतुश्च । मेधिरः । मेधावान् । उत्तरसूत्रेण विन्नपि । मेधावी, रथिरः, रथिकः, रथी, रथवान् । ४१ ।
कृपाहृदयादालुः || ७. २. ४२ ॥
कृपाहृदयशब्दाभ्यां मत्वर्थे आलुः प्रत्ययो वा भवति मतुश्च । कृपालुः कृपावान्, हृदयालुः, हृदयिकः, हृदयी, हृदयवान् ।४२।
केशादः ।। ७. २. ४३ ।।
केशशब्दान्मत्वर्थे वः प्रत्ययो वा भवति मतुश्च । केशवः केशिकः, केशी, केशवान् । केशव इति रूढिशब्दोऽपि विष्णुवाची |४३|
न्या० सं० श० - रूढिशब्दोऽपीति न केवलं यस्य केशाः सन्ति स केशवः, किन्तु विष्णुरपि ।