________________
२६६ ]
बृहद्वृत्ति - लघुन्याससंचलिते
लक्ष्म्या अनः ।। ७. २. ३२ ।। लक्ष्मीशब्दान्मत्वर्थेऽनः प्रत्ययो भवति । लक्ष्मीरस्यास्तीति लक्ष्मणः,
मतौ लक्ष्मीवान् ।३२।
प्रज्ञाश्रद्धाचवृत्तेर्णः । ७. २.३३ ॥
प्रज्ञाश्रद्धार्चावृत्ति इत्येतेभ्यो मत्वर्थे णः प्रत्ययो भवति मतुश्च । प्राज्ञः, प्रज्ञावान्, श्राद्धः, श्रद्धावान्, आर्च:, अर्चावान्, वार्त्तः, वृत्तिमान् । स्त्री तु प्राज्ञा श्राद्धा आर्चा वार्ता । प्राज्ञीति स्वार्थिकाणन्तात् ।३३।
ज्योत्स्नादिभ्योऽण् ॥ ७. २.३४ ॥
ज्योत्स्ना ज्योत्स्ना इत्येवमादिभ्यो मत्वर्थेऽण् प्रत्ययो भवति । अस्मिन्नस्ति ज्योत्स्नः पक्षः, ज्योत्स्नी रात्रिः, तामिस्रः पक्षः, तामिस्री रात्रिः । तामिस्राणि गुहामुखानि । वैसर्पो व्याधिः, वैपादिकं कुष्ठम्, कौतुपं गृहम्, कौण्डलो युवा, तापसः पाखण्डी, साहस्रो देवदत्तः, मतौ ज्योत्स्नावान् तमिस्रावानित्यादि । तापस इति रूढिशब्दो रूढिविषये च मतुर्न भवति । कुण्डली सहस्री चेति शिखादित्वात् । ज्योत्स्नादयः प्रयोगगम्याः | ३४५ सिकताशर्करात् ॥ ७ २. ३५ ॥
[ पा० २. सू० ३२-३७ ]
T
सिकताशर्करा इत्येताभ्यां मत्वर्थेऽण् प्रत्ययौ भवति मतुश्च । सैकतः, सिकतावान् देशः, शार्करः शर्करावानोदनः । ३५ ।
इलश्च देशे ।। ७. २. ३६॥
सिकताशर्कराभ्यां देशे मत्वर्थे इलचकारादण् च प्रत्ययौ भवतः मतुश्च । सिकतिलः, सैकतः, सिकतावान् देशः, शर्करिलः, शार्करः, शर्करावान् देशः । सिकताः, देशः, शर्कराः देशः इत्यभेदोपचारात् | ३६ |
न्या० स० इल०- ननु पूर्व सूत्रे ग सामान्येन भणनाद्देशेऽपि ' सिकताशर्कराभ्यामण्’ ७-२-३५ सिद्ध एवेति किमत्र तदनुकर्षणार्थेन च शब्देन ?
द्युद्रोर्मः ॥ ७. २. ३७ ॥
सत्यं, यद्यत्र चकारो न स्यात्तदनुकर्षणार्थस्तदा देशेऽसावेव स्यान्न त्व ।
ननु सिकता देश इत्याद्यर्थं मत्वर्थीयस्य पक्षे लुप् लुबन्तस्य च प्रकृतिलिङ्गसंख्ये वक्तव्ये इत्याह-उपचारादिति रूढिवशाच्च बहुवचनान्त इति ।
इति दिवः कृतोकारस्य निर्देश: धुशब्द उकारान्तोऽहः पर्यायः