________________
[ पाद. २. सू. २९-३१ ]
श्रीसिद्धहेम चन्द्रशब्दानुशासने सप्तमोध्यायः [ २६५
लोमन्, रोमन्, बभ्रु, वल्गु, हरि, कपि, मुनि, गिरि, उरु, कर्क इति लोमादिः । पिच्छ, उरस्, धुवका, ध्रुवका, पक्ष, चूर्ण इति पिच्छादिः । २८। न्या० स० लोम०-पिच्छिल इति पिच्छं चिक्कणत्वमस्यास्ति, यद्वा पिच्छं मयूरादिसत्कमस्यास्त्युपमानतया ।
नोऽङ्गादेः ।। ७. २. २९ ॥
अङ्ग इत्येवमादिभ्यो मत्वर्थे नः प्रत्ययो भवति मतुश्च । अङ्गान्यस्याः सन्ति अङ्गना । रूढिशब्दोऽयं, कल्याणाङ्गी स्त्री उच्यते इतिकरणात् अन्यत्राङ्गवती । पामनः पामवान्, वामनः वामवान् ।
अङ्ग, पामन्, वामन्, हेमन्, श्लेष्मन् सामन्, वर्ष्मन् ( वर्ष्मन्) शाकिन्, पलालिन्, पलाशिन्, ऊष्मन्, कद्रु, बलि इत्यङ्गादिः योगविभाग उत्तरार्थः ।२९।
न्या० स० नोऽङ्गा०- घामन इति वामानि नीचान्यर्थादङ्गान्यस्य । योगविभाग इति एकयोगस्तु लोमपिच्छाङ्गादेः शेलेनमित्येवंविधः स्यात् ।
शाकी पलाली दवा ह्रस्वश्च ।। ७. २. ३० ।।
शाकी पलाली दद्रू इत्येतेभ्यो मत्वर्थे नः प्रत्ययो भवति मतुव नप्रत्ययसंनियोगे चंषां ह्रस्वोऽन्तादेशः । महच्छाकं शाकमूसहो वा शाकी, महत्पलालं पलालक्षोदो वा पलाली । दद्भूर्नाम व्याधिः । शाकिनः, शाकीमान्, पलालिनः, पलालीमान् दद्रुणः, दर्दूमान् । केचित्तु शाकीपलाल्यो ईस्वत्वं नेच्छन्ति । तन्मते शाकीनः, पलालीनः | ३०|
न्या० स० शाकी-शाकीति महत्त्वे समूहेऽपि तद्बहुलमिति स्त्रीत्वे गौरादित्वात् ङी । विष्वचो विषुश्च ॥ ७२. ३१ ।।
विष्वच् इत्येतस्मान्मत्वर्थे नः प्रत्ययो भवति विषु इत्ययं चादेशो भवति । विषु अवतीति विष्वक् । विष्वञ्चो रश्मयो विष्वग्नतानि वा अस्य सन्ति इति विषुणः आदित्यः । विषुणः वायुः । विषुशब्दो निपातो नानात्वे वर्तते । विष्वगिति अखण्डमव्ययं वा । नकारसंनियोगे आदेशस्य विधानात् मतौ विष्वग्वान् । कथं विषुमान हौ रात्रप्रविभाग इति ? विषुर्नाम मुहूर्तस्तस्माद्भविष्यति । ३१ ।
न्या० स० विष्वचो०- विष्वकू इति अत्र रूपमित्यध्याहारात् क्लीवत्वे सेलुंपि नागमाभावः । अखण्डमिति चकारान्तमित्यर्थः चकारान्तस्यैव सूत्रे ग्रहणात् ।