________________
२६४ ]
बृहद्वृत्ति-लघुन्याससंवलिते [पाद. २ सू० २६-२८ ] मध्वादिभ्यो रः ॥ ७. २. २६ ।।
_ मध्वादिभ्यो मत्वर्थ रः प्रत्ययो भवति । मधुरो रसः। अत्र मधुशब्दः स्वादुत्वे गुणत्वे गुणसामान्ये वर्तते । मधुरं मधु, मधुरं क्षोरम्, अत्र गुमे । क्षौद्रादिद्रव्यवृत्तेस्तु मतुरेव इतिकरणानुवृत्तः । मधुमान् घटः । एवं खं महत् कण्ठविवरमस्यास्ति खरः गर्दभः, खवानन्यः । मुखं सर्वस्मिन् वक्तव्ये यस्यास्तीति मुखरः वाचालः, मुखवानन्यः । कुजावस्य स्तः कुञ्जरो हस्ती । कुञ्जशब्दोऽत्र हनुपर्यायः । कुञ्जवानन्यः । नमरं पुरं, नगवदन्यत् । ऊषरं क्षेत्रम्, ऊषवदन्यत् । मुष्करः पशुः, मुष्कवानन्यः। शुषिरं शुषिमत्काष्ठम् । कण्डूरः कण्डूमान्, पाण्डुरः पाण्डुमान्, पांशुरः पांशुमान्, मध्वादयः प्रयोगगम्या: ।२६॥
न्या० स० मध्वा०-मधुर इति मधुशब्दो माधुर्येऽर्थे पुंलिङ्गः क्षौद्राद्यर्थे तु नपुंसकः तस्मात् माधुर्येऽर्थे पुंलिङ्गेन वाक्यं कार्य मधुरस्यातीति, स्वादुत्वे इत्यस्य गुणत्व इति गुणसामान्ये इति च पर्यायद्वयम् । एवमिति इतिकरणानु वृत्तेः, खर इत्यादिषु अर्थविशेषे स्प्रत्ययोऽन्यत्र मधुरेवेत्यर्थ । पाण्डुर इति अत्र पाण्डुशब्दः पाण्डुत्वरूपे गुणे वर्त्तते । कृष्यादिभ्यो वलच् ॥ ७. २. २७ ॥
कृष्यादिभ्यो मत्वर्थे वलच् प्रत्ययो भवति । कृषीवलः कुटुम्बी, कृषिमत्क्षेत्रम्, आसुतीवलः कल्यपालः, आसुतिमान्, परिषद्वलः, परिषद्वान्, पर्षद्वलः, पर्षद्वान, परिषदलं तीर्थं पङ्किलमित्यर्थः । परिषद्वत् । रजस्वला स्त्री, रजस्वान् ग्रामः । केचित्तु रजस्वलो देशः रजस्वला भूमिः रजस्वान् रजस्वतीति सर्वत्रा विशेषेण वृत्तिमिच्छन्ति । दन्तावलो नाम राजा हस्ती च । शिखावलं नगरम् शिखावलो मयूरः, शिखावला स्थूणा, दन्तवान् शिखावानन्यः । मातृबल: मातृमान्, एवं पितृवलः, भ्रातृवलः, उत्साहवलः पुत्रवल: उत्सङ्गवलः। विशेष इतिकरणात्सिद्धः। कृष्यादयः प्रयोगगम्या: ।२७।
न्या० स० कृष्या० -शिखावलो मयूर इति इतिकरणात् प्राण्यङ्गार्थादपि शिखाशब्दात बलच् न तु लः, एवं दन्तवान् शिखावानन्य इति दन्तशिखाभ्यां संज्ञायामिति पूर्वैरुक्तत्वात् । लोमपिच्छादेः शेलम् ।। ७. २. २८ ॥
लोमादिभ्यः पिच्छादिभ्यश्च मत्वर्थे यथासंख्यं श इल इत्येतौ भवतः मतुश्व । लोमशः लोमवान्, रोमशः रोमवान्, पिच्छिलः पिच्छवान उरसिलः उरस्वान् ।