________________
1. पाद. २. सू. २२-२५ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने सप्तमोऽध्यायः [ २६३ 'मध्वादिभ्योरः' ७-२-२६ इत्येव स्यात, तथाऽत्र गडशब्दो गडलस्वरूपे गुणे वत्तते इति रुगद्वारेण न सिध्यति ।
पेशलकुशलादिवदिति यथा पेशं लाति, कुशं लाति इत्येवमनयोयुत्पत्तिरेवं वत्सलांसलयोरपि । औणादिको वा मनोज्ञमेधावि वाचिनौ । प्रज्ञापर्णोदकफेनाल्लेलौ ॥ ७. २. २२ ॥
प्रज्ञा पर्ण उदक फेन इत्येतेभ्यो मत्वर्थे ल इल इत्येतौ भवतः मतुश्च ।
प्रज्ञालः, प्रज्ञिलः, प्रज्ञावान, पर्णलः, पणिलः, पर्णवान, उदकलः, उदकिलः, उदकवान्, फेनलः, फेनिलः, फेनवान् ।२२१ कालाजटाघाटात्क्षेपे ॥ ७ २. २३ ।।
कालाजटाघाटा इत्येतेभ्यो ल इल इत्येतौ प्रत्ययौ भवतः क्षेपे प्रत्ययार्थस्य निन्दायां गम्यमानायाम् । कालाल: कालिलः। कालेति डोपान्त्यं केचित्पठन्ति । काडालः, काडिलः, जटाल:, जटिलः, घाटालः, घाटिलः । मतुना क्षेपो न गम्यते इति क्षेपे मतुर्न भवति । क्षेपे इति किम् ? कालावान्, जटावान्, घाटावान् ।२३।
न्या० स० काला०-कालाल इति कडत् णिग् भिदाद्यङ्, 'ऋफिड' २-३-१०४ इति ले काला पादत्रसाविशेषः, अस्मान्मतो 'प्राण्यङ्ग' ७-२-२० इति ले अभ्राद्यकारे च प्राप्ते लेलो 1___ जटाल इति लोकवचनाय जटा अस्यास्ति । घाटाल इति निन्द्या घाटा कृकाटिकास्यास्ति । वाच आलाटो ॥ ७. २. २४ ॥
वाच् इत्येत्तस्मान्मत्त्वर्थे आल आट इत्येतौ प्रत्ययौ भवतः क्षेपे गम्यमाने, ग्मिनोऽपवादः । वाचालः, वाचाटः । यो बहु निःसारं भाषते स एवं क्षिप्यते। मतुना क्षेपो न गम्यते इति क्षेपे मतुर्न भवति । क्षेपे इत्येव ? बाग्मी, वाग्वान् ।२४। ग्मिन ।। ७. २. २५ ॥
वाचो मत्वर्थे ग्मिन् प्रत्ययो भवति मतुश्च । वाग्मी, वाग्वान् । गकारः 'प्रत्यये च' (१-३-२) इति अनुनासिक निबृत्त्यर्थः । क्षेप इति निवृत्तम् ।२५।
न्या० स० स्मिन् निवृत्त्यर्थ इति द्वित्तीयगश्रवणे न स्यादिति न वाच्य, रूपमेव हि भिद्यते न श्रुतिः, शब्दस्य श्रोत्रग्राह्यत्वादिति पूर्वन्यासाः ।
क्षेप इति निवृत्तम्-पृथग्योगादिति-करणानुवृत्तेश्च प्रशंसायामेवायं न स्वरूपमा ।