________________
२६२ ]
बृहवृत्ति-लघुन्याससंवलिते [ फाद. २ सू० २०-२१ ] प्राण्यङ्गादातो लः ॥७. २. २०॥
प्राण्यङ्गवाचिन आकारान्तान्मत्वर्थे लः प्रत्ययो भवति मतुश्च । चूडालः, जङ्घालः, शिखालः, चूडावान्, जङ्घावान्, शिखावान् । प्राण्यङ्गादिति किम् ? जङ्घावान् प्रासादः, शिखावान् प्रदीपः। अङ्गग्रहणं किम् ? इच्छावान्, वासनावान् । कणिकाल इत्यत्र कणिकाशब्दः प्राण्यङ्गस्यैव वाचक इत्याहुः । आत इति किम् ? हस्तवान्, पादवान् ।२०।
न्या० स० प्राण्य-चूडाल इति शाखादिपाठेन न बाध्यते इतिकरणात् ।
शिखाल इति इदमुदाहृतं शकटोत्पलभोजैः मूलोदाहरणं तु भोजेनैव ततश्चैवं ज्ञायते यथा शिखाया वलच् संज्ञायां तथा इन्नपि वह्नौ मयूर इति नियतेऽर्थे द्रष्टव्य इत्यवधार्यमितिकरणात्
प्राण्यङ्गस्यैवेति न तु कर्णाभरणस्येत्यर्थः । सिध्मादिक्षुद्रजन्तुरुग्भ्यः ॥ ७. २. २१ ॥
सिध्मादेर्गणात क्षुद्रजन्तुवाचिभ्यो रुग्वाचिभ्यश्च मत्वर्थे लः प्रत्ययो भवति मतुश्च । सिध्मान्यस्य सन्ति सिध्मलः, सिध्मवान्, वर्मलः, वर्मवान् । अङ्गादित्वान्ने वर्मनः । गडुलः, गडुमान् । पार्णीधमनीशब्दौ दीर्घान्तावेव गणे पठयेते तेन दीर्घान्ताभ्यामेव लः। पाीलः, धमनीलः । हस्वान्ताभ्यां तु मतुरेव । पाणिमान्, धमनिमान् । क्षुद्रजन्तु, यूकालः, यूकावान्, मक्षिकालः, मक्षिकावान् । आ नकुलात् क्षुद्रजन्तुः । रुकु, मूर्छालः, मृ वान्, विचचिकालः, विचिकावान् । रुग्भ्य इति बहुवचनं स्वरूपविधिनिषेधार्थम् ।
सिध्म, वर्मन्, गडु, तुण्डि, मणि, नाभि, बीज, निष्पाद, निष्पद्, निष्प, पांशु, हनु, पशु, पार्णी, धमनी, सक्तु, मांस, पत्र, वात, पित्त, श्लेष्मन्, पार्श्व, कर्ण, सक्थि, स्नेह, शीत, कृष्ण, श्याम, पिङ्ग, पक्षमन्, पृथ, मृदु, मञ्जु, चटु, कण्ड् इति सिध्मादिः। कथं वत्सलः स्नेहवान् अंसलो बलवान् ? नात्र कश्चिद्वत्साद्यर्थोऽस्ति इति पेशलकुलादिवदेतौ यथाकथंचियुत्पादनीयौ सिध्मादिषु वा पठनीयौ ।२१॥
न्या० स० सिध्मा०-ननु सिध्मशब्दस्य दुर्भित्तार्थत्वात् रुगद्वारेणैव लः सिद्धः किं गणपाठेन?
सत्य, अस्यादन्तत्वात 'प्राणिस्थादस्वाङ्गात् ' ७-२-६० इतीन स्यात्तद्बाधनार्थम् , वर्मनशब्दस्यापि दुर्भित्तार्थत्वात् कण्डूशब्दस्य च तथैव सिद्धं किं त्वाभ्यां यथाक्रमं 'नोऽगादेः'