SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ ५. पाद. २. सू. १४-१९] श्रीसिद्धहेमचन्द्रशब्दानुशासने सप्तमोऽध्यायः [२६१ फलिनः, फलवान्, बहिणः, बर्हवान्, शृङ्गिणः, शृङ्गवान् । शिखादित्वात् फली बौँ ।१३। मलादीमसश्च ।। ७. २. १४ ॥ ___मलशब्दान्मत्वर्थे ईमस इनश्च प्रत्ययौ भवत: मतुश्च । मलीमसः, मलिनः, मलवान् ।१४। मरुत्पर्वणस्तः ॥ ७. २. १५ ॥ __ मरुत्पर्वन् इत्येताभ्यां मत्वर्थे तः प्रत्ययो भवति मतुश्च । मरुत्तः, परुत्त्वान्, पर्वतः, पर्बवान् ॥१५॥ वलिवटितुण्डेर्भः ॥ ७. २. १६॥ वलिवटितुण्डि इत्येतेभ्यो मत्वर्थे भः प्रत्ययो भवति । वलिभः, वलिन इत्यङ्गादित्वान्न । चटिभः, तुण्डिभः । सिध्मादिपाठाल्ले तुण्डिलः, मतुश्व । वलिवान, प्रवद्धा नाभिस्तुण्डिः ।१६।। . न्या० स० वलिव०-वटिरुन्नतनाभ्यर्थः, एकदेश इति न्यायात्तुन्दिशब्दादपि भे तुन्दिभ इति क्षीरः । ऊर्णाहंशुभमो युस् ॥ ७. २. १७ ॥ ऊर्णा अहम् शुभम् इत्येतेभ्यो मत्वर्थे युस् प्रत्ययो भवति । ऊर्णायुः उरभ्रः, अहंयुः अहंकारी, शुभंयु: कल्याणबुद्धिः ।१७। कंशंभ्यां युस्तियस्तुतवभम् ॥ ७. २. १८ ॥ कम्, शम् इत्येताभ्यां मत्त्वर्थे युस्, ति, बस्, तु, त, व, भ इत्येते प्रत्यया भवन्ति । __ कंयुः, शंयुः, कन्तिः, शंतिः, कंयः, शंयः, कंतुः, शन्तुः, कन्तः, शन्तः, कंवः, शंवः, कंभः, शंभः। युस्यसोः सकारो नाम सिदव्यजने'(१-१-२१) इति पदत्वार्थः, तेन 'तौ मुमो व्यञ्जने स्वौ ' (१-३-१४) इत्यनुस्वारानुनासिको सिद्धौ। कंयुः, कय्युः, शंयः, शय्यः ।१८। बलवातदन्तललाटादूलः ॥ ७. २. १९ ॥ एभ्यो मत्वर्थे ऊलः प्रत्ययो भवति । बलूलः, वातूलः, दन्तूलः, ललाटूलः । मतुश्च । बलवान्, वातवान्, दन्तवान् ललाटवान् ।१९।
SR No.032130
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 03
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy