SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ २६० ] बृहवृत्ति-लघुन्याससंवलिते [पा० २. सू० ९-१३ ] भवति । भावादेवेति नियमादतो द्रव्यवाचिन इकेनौ न भवतः, अर्थो हिरण्यादिरस्यास्तीति अर्थवान् इति मतुरेव भवति ।८। व्रीह्यर्थतुन्दादेरिलश्च ॥ ७. २. ९॥ व्रीहिवाचिभ्यस्तुन्दादिभ्यश्च मत्वर्थे इल: प्रत्ययो भवति चकारात्तौ चेकेनौ आ यादिति मतुश्च । व्रोह्यर्थ, कलमा अस्यास्मिन्वा सन्ति कलमिलः, कलमिकः, कलमी, कलमवान्, शालिलः, शालिकः, शाली, शालिमान् । व्रोहिशब्दोऽपि व्रीह्यर्थो भवति किंतु तस्य पूर्वत्रोपादानादिलो न भवति । भावे हि तत्रोपादानमनर्थकं स्यात् । भवतीत्येके । व्रीहिलः। तुन्दादि, तुन्दिलः, तुन्दिकः, तुन्दी, तुन्दवान्, उदरिलः, उदरिकः, उदरी, उदरवान् । तुन्द, उदर, पिचण्ड, यव, ग्रह, पङ्क, गुहा, कला, काक इति तुन्दादिः ।९। न्या० स० व्रीह्य-चकारात्तौ चेति अत्र च शब्दोऽप्यर्थे तावपीत्यर्थः। पूर्वत्रेति व्रीह्यादिभ्यस्तावित्यत्र । ननु तर्हि अर्थग्रहणाभावेऽपि व्रीहिशब्दोपादानेऽपि ब्रीह्यर्थग्रहणे लब्धे किमर्थग्रहणेन ? न, प्रतिपत्तिगौरवनिरासार्थत्वादर्थग्रहणस्य । स्वाङ्गादिवृद्धात्ते ॥ ७. २. १० ॥ स्वाङ्गाद्विवृद्धोपाधिकान्मत्वर्थे ते इल इक इन इत्येते प्रत्यया भवन्ति मतुश्च । विवृद्धौ महान्तौ कर्णावस्य स्त: कणिलः, कणिकः, कर्णी, कर्णवान, ओष्ठिलः, ओष्ठिकः, ओष्ठी, ओष्ठवान् । विवृद्धादिति किम् ? अन्यत्रेलो न भवति । 'अतोऽनेकस्वरात्' (७-२-६) इतीकेन्मतव एव भवन्ति ।१०। वृन्दादारकः ॥ ७. २. ११॥ वन्दशब्दान्मत्वर्थे आरकः प्रत्ययो भवति मतुश्च । वृन्दारकः, वृन्दवान् । शिखादित्वात् वृन्दी ।११। शृङ्गात् ॥ ७. २. १२॥ शङ्गान्मत्वर्थे आरकः प्रत्ययो भवति मतुश्च । शृङ्गारकः, शृङ्गवान् । शिखादित्वात् शृङ्गी ।१२। फलबाँच्चेनः ॥ ७. २. १३ ॥ फलबह इत्येताभ्यां शृगाच्च मत्वर्थे इनः प्रत्ययो भवति मतुश्च ।
SR No.032130
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 03
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy