________________
[ पाद २. सू. ७-८ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने सप्तमोऽध्यायः [ २५९ कार्यिकः, कार्टी, हायिकः, हार्दी, गृहिकः, गृही, दात्रिकः, दात्री, पात्रिकः, पात्रो, भोगिकः, भोगी, तरिकः, तरी, विजयिकः, विजयी, संयमिकः, संयमी, स्थानिकः, स्थानी इति ।
जातिशब्देभ्यो न भवतः । व्याघ्रवान्, सिंहवान्, वृक्षवान्, प्लक्षवान्, तथा द्रव्यवान्, क्रव्यवान्, सस्यवान्, धान्यवान्, माल्यवान्, पुण्यवान् सत्यवान् अपत्यवान्, धनवान् । क्वचिद्भवतः, तण्डुलिकः, तण्डुली, कर्पटिकः, कर्पटी । धनादुत्तमणे भवतः-धनिकः, धनी। सप्तम्यर्थे च न भवतः-दण्डोऽस्मिन्नस्ति दण्डवद्गृहम, वीरवान् ग्रामः । क्वचिद्भवतः । खलिनी भूमिः, शालिनी भूमिः। रसरूपवर्णगन्धस्पर्शशब्दस्नेहेभ्यो गुणवाचिभ्यो न भवतः । कचिद्भवतः । रसिको नटः, रसी इक्षुः, रूपिको दारवः, रूपिणी कन्या, रूपिष्ववधिः, रूपिसमवायाच्चाक्षुषाणि, स्पशिको वायुः, गन्धिकः, गन्धी । तदेवं व्यभिचारे सूत्रणादभिधानमेव श्रेयः ।६।
न्या० स० अतो०-स्ववानिति अत्र स्वामित्वाविवक्षणात् 'स्वामिन्नीशे' -२-४९ इति न मिन् ।
तथा द्रव्यवानिति व्याघ्रादयो लोकप्रसिद्धया जातिशब्दा द्रव्यादयस्तु शास्त्रप्रसिद्धथा इति द्रव्यादीनामपि शास्त्रप्रसिद्धया जातिशब्दत्वं दर्शयता तथेत्थुपात्तम् । ____ गुणवाचिभ्यो नेति यदा तु कस्यचिद्रूपं रस इत्यादि नाम भवति तदा भवत्येव । रूपिसमवायादिति संख्या परिमाणानि पृथक्त्वं संयोगविभागौ कर्म च रूपिसमवायाञ्चाक्षुषाणीति । अशिरसोऽशीर्षश्च ।। ७. २. ७ ॥
अशिरःशब्दान्मत्वर्थे तो इक इन् इत्येतौ प्रत्ययौ भवतः मतुश्च तत्संनियोगे चाशिरःशब्दस्याशीर्ष इत्ययमादेशो भवति ।
अशीषिकः, अशीर्षी, अशीर्षवान् । इकेनोः ‘शीर्षः स्वरे तद्धिते' (३-२-१०३) इति शीर्षादेशो विद्यत एव, मतो त्वशिरसोऽशीर्षभावोऽनेन विधीयते ।। अर्थार्थान्ताद्भावात् ॥ ७. २. ८॥
अर्थशब्दादर्थान्ताच्च भाववाचिनो मत्वर्थे तो इक इन् इत्येतो प्रत्ययौ भवतः, नियमार्थमिदम्, उभयथा चायं नियमो वाक्य भेदेन क्रियते. भाववाचिन एवैतौ प्रत्ययौ भवतः, भाववाचिनश्चतावेव भवतः। - अर्थणि उपयाचने-अर्थनमर्थः, सोऽस्यास्तीत्यथिकः अर्थी। प्रतीपमर्थने प्रत्यर्थः सोऽस्यास्तीति प्रत्यर्थिकः, प्रत्यर्थी । इकेनावेवेति नियमादतो मतर्न