________________
२५८]
बृहद्वृत्ति-लघुन्याससंवलिते [पाद. २ सू० ३-६ ] नावादेरिकः ॥ ७. २. ३ ॥
नौ इत्येवमादिभ्यो मत्वर्थे इकः प्रत्ययो भवति मतुश्च ।
नौरस्यास्मिन्वास्तीति नाविकः, नौमान्, कुमारिकः, कुमारीमान, यवखदिकः, यवखदावान् । नौकुमारीभ्याम् इनं केचिदाहुः नावी, कुमारी । नौ, कुमारी, यवखदा, सभा, करण इति नावादिः ।।
न्या० स० नावा०-इन केचिदाहुरिति ते ह्यनयोः शिखादौ पाठमिच्छन्ति । यवखदिक इति खदन भिदाद्यङ्, यवानां खदा यवखदा यवाभ्योषः । शिखादिभ्य इन् ॥ ७. २. ४॥
शिखा इत्येवमादिभ्यो मत्वर्थे इन् प्रत्ययो भवति मतुश्च । शिखो, शिखावान्, माली, मालीवान् ।
शिखा, माला, शाला, मेखला, शाखा, वीणा, संज्ञा, वडवा, अष्टका, बलाका, पताका, कर्मन्, चर्मन्, वर्मन्, बल, उत्साह, उद्दास, उद्भास, उल, मुल, मूल, आयाम, व्यायाम, प्रयाम, आरोह, अवरोह, परिणाह, शङ्ग, वृन्द, गदा, निचुल, मुकुल, कूल, फल, अल, मान, मनीषा, व्रत, धन्वन, चडा, केका दंष्ट्रा, सूना, घृणा, करुणा, जरा, आयास, (आयस) स्तबक, उपयाम, उद्यम इति शिखादिराकृतिगणः । केचित्तु वडवा, अष्टका, कर्मन, वर्मन्, चर्मन् इत्येतेभ्य इकमपीच्छन्ति ।४।
न्या० स० शिखा ०-इकमपीच्छन्ति इति ते ह्येतान् ब्रीह्यादौ पठन्ति । व्रीह्यादिभ्यस्तौ ॥ ७. २. ५॥
व्रीह्यादिभ्यो मत्वर्थे तौ इक इन् इत्येतो प्रत्ययौ भवतः मतुश्च । व्रीहयोऽस्यास्मिन्वा सन्ति व्रीहिकः, ब्रोही, व्रीहिमान्, मायिकः, मायी, मायावान्, मायावीति विन् । व्रीह्यादयः प्रयोगगम्याः ।५। अतोऽनेकस्वरात् ।। ७. २.६ ॥ अकारान्तादनेकस्वरान्मत्वर्थे तौ इक इन् इत्येतौ प्रत्ययो भवतः मतश्च ।
दण्डिकः, दण्डी, दण्डवान्, छत्त्रिकः, छत्त्री, छत्त्रवान् । अत इति किम् ? खट्वावान्, मालावान् । अनेकस्वरादिति किम् ? खवान्, स्ववान । अभिधानार्थस्येतिकरणस्यानुवृत्तेः कृदन्तान भवतः । राप्यवान्, लाप्यवान्, लव्यवान, हव्यवान्, कृत्यवान्, भृत्यवान्, कारकवान्, हारकवान, कुम्भकारवान, धान्यमायवान, हिंस्रवान्, ईश्वरवान् पाकवान्, स्नेहनवान् । क्वचिद्भवतः ।