________________
२५२ ]
बृहद्वृत्ति-लघुन्याससंवलिते [ पाद. १ सू० १८६-१९१ ] उष्णादग्नेरचिरोद्धृता उष्णिका यवागूः । अल्पान्ना पेया विलेपिकेति यावत्, उष्णकुण्डान्निसृता नदीति केचित् ।१८५) शीताच कारिणि ॥ ७. १. १८६ ॥
शीतादुष्णाच्च सामर्थ्यात् द्वितीयान्तात्कारिण्यर्थे कः प्रत्ययो भवति नाम्नि । शीतं मन्दं करोति शीतक: अलसः, उष्णं क्षिप्रं करोति उष्णकः दक्षः । नाम्नीत्यनुवृत्तेः शीतोष्णशब्दाविह मान्यशीघ्रवचनौ गोते न स्पर्शवचनौ । क्रियाविशेषणत्वात् द्वितीया, कारीत्यावश्यके णिन् ।१८६।
अधेरारूढे ॥ ७. १. १८७ ॥
__ अधिशब्दादारुढेऽर्थे वर्तमानात्स्वार्थे कः प्रत्ययो भवति । आरुढशब्दः कर्तरि कर्मणि च क्तप्रत्यये सिद्धः । तत्र यदा कर्तरि तदा अधिको द्रोणः खार्याः अधिको द्रोणः खार्यामिति च भवति । यदा तु कर्मणि तदा अधिका खारी द्रोणेनेति भवति ।१८७। ___ न्या० स० अधे०-खार्याः, खार्यामिति चेति 'अधिकेन भूयसस्ते । २-२-१११ पञ्चमीसप्तभ्यौ । द्रोणेनेति 'तृतीयाल्पीयसः' २-२-११२ । अनोः कमितरि ॥ ७. १. १८८ ॥
अनुशब्दात्कः प्रत्ययो भवति समुदायेन चेत्कमिता गम्यते । अनुकामयतेऽनुकः ।१८८। अमेरीश्च वा ॥ ७. १. १८९ ।।
अभिशब्दात्कः प्रत्ययो भवति ईकारश्चास्य वा भवति समुदायेन चेत्कमिता गम्यते । अभिकामयते अभिकः, अभीकः ।१८९। : सोऽस्य मुख्यः ॥ ७. १. १९०॥
स इति प्रथमान्तादस्येति षष्ठ्यर्थे क प्रत्ययो भवति यत्तत्प्रथमान्तं स चेन्मुख्यः प्रधानं ग्रामणीर्भवति । देवदत्तो मुख्योऽस्य देवदत्तक: संघः, जिनदत्तकः, देवदत्तो मुख्य एषां देवदत्तकाः, जिनदत्तकाः, मुख्य इति किम् ? देवदत्तः शत्रुरेषाम् ।१९०। शृङखलकः करमे ॥ ७. १. १९१ ॥ शृङखलकशब्द: कप्रत्ययान्तो निपात्यते करभे उष्ट्रशिशौ वाच्ये ।