________________
[ पाद. १. सू. १८०-१८५ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने सप्तमोऽध्यायः [२५१ ___ धने कामः धनकः चैत्रस्य, हिरण्यको मैत्रस्य ।१७९। स्वाङ्गेषु सक्ते ॥ ७. १. १८० ॥
स्वाङ्गवाचिभ्यो नामभ्यो निर्देशादेव सप्तम्यन्तेभ्यः सक्ते तत्परेऽर्थे कः प्रत्ययो भवति ।
केशेषु सक्तः केशकः नखकः, दन्तकः । केशादिरचनायां प्रसक्त उच्यते । बहुवचनात्स्वाङ्गसमुदायादपि भवति । दन्तौष्ठकः, केशनखकः ।१८०। उदरे विकणायूने ॥ ७. १. १८१ ॥
उदरशब्दान्निर्देशादेव सप्तम्यन्तासक्तेऽर्थे इकण् प्रत्ययो भवति सक्तचंदानो भवति । उदरे सक्तः औदरिकः आयुनः अविजिगीषुः यो बुभुक्षयात्यन्तं पीडयते । औदरिकी । आधुन इति किम् ? उदरकोऽन्यः। तु शब्द: पूर्वयोगशेषतामस्य कथयति तेन काधिकारो न बाध्यते ।१८१॥ अंशं हारिणि ॥ ७. १. १८२ ॥
अंशशब्दानिर्देशादेव द्वितीयान्ताद्धारिण्यर्थे कः प्रत्ययो भवति । अंशं हारी अंशको दायादः, हारीत्यावश्यके णिन् ।१८२।
न्या० स० अंशं०–अवश्यं हरिष्यति णिन् , 'एष्यहणेनः' २-२-९४ इति षष्ठ्या निषेधः, शीलार्थे तु षष्ठी स्यात् । तन्त्रादचिरोदते ॥ ७. १. १८३ ॥
तन्त्राशब्दान्निर्देशादेव पञ्चम्यन्तादचिरोद्धृतेऽचिरादुत्तीर्णेऽर्थे कः प्रत्ययो भवति । तन्त्रात्पटवानोपकरणादचिरोत्तीर्णः तन्त्रकः पटः । प्रत्यय इत्यर्थः ।१८३। ब्राह्मणानानि ॥ ७. १. १८४ ॥
ब्राह्मणशब्दान्निर्देशादेव पञ्चम्यन्तादचिरोद्धृतेऽर्थे नाम्नि संज्ञायां कः प्रत्ययो भवति ।
सदाचारब्राह्मणेभ्यस्तदानीमेवोद्धृत्य पृथक्कृतः ब्राह्मणको नाम देशः । यत्रायुधजीविनः काण्डस्पृष्टा नाम ब्राह्मणा भवन्ति । आयुधजीवी ब्राह्मण एव ब्राह्मणक इत्यन्ये ।१८४। उष्णात् ॥ ७. १. १८५ ।। उष्णशब्दात्पञ्चम्यन्तादचिरोद्धृतेऽर्षे कः प्रत्ययो भवति नाम्नि ।