________________
२५० ] बृहद्वृत्ति-लघुन्याससंवलिते [ पाद. १ सू० १७५-१७९ ] तेन वित्ते चञ्चुचणौ ।। ७. १. १७५ ॥
तेनेति तृतीयान्ताद्वित्तेऽर्थे चञ्चुचण इत्येतौ प्रत्ययो भवतः। वित्तो ज्ञातः प्रकाश इत्यर्थः, विद्यया वित्तः विद्याचञ्चुः, विधाचणः, केशचञ्चुः, केशचणः ।१७५॥ . पूरणादग्रन्थस्य ग्राहके को लुक्चास्य ॥ ७. १. १७६ ।।
तेनेति तृतीयान्तात्पूरणप्रत्ययान्तात् ग्रन्थस्य ग्राहकेऽर्थे कः प्रत्ययो भवति तत्संनियोगे च पूरणप्रत्ययस्य लुक् ।
द्वितीयेन रूपेण ग्रन्थस्य ग्राहकः द्विकः, त्रिकः, चतुष्कः, पञ्चकः, षट्कः वैयाकरणः । ग्रन्थस्येति किम् ? पञ्चमेन दिनेन शत्रूणां ग्राहकः ।१७६। ग्रहणादा ॥ ७. १. १७७ ॥
ग्रन्थस्येति वर्तते पूरणादिति च, गृह्यतेऽनेनेति ग्रहणं रूपादि, ग्रन्थस्य ग्रहणाद् ग्रहणे वर्तमानात्पूरणत्प्रत्ययान्तान्नाम्नः कः प्रत्ययो भवति स्वार्थे प्रकृत्यर्थ एव अर्थान्तरानिर्देशात् तत्संनियोगे च पूरणप्रत्ययस्य वा लुक, वेति लुकैव संबन्ध्यते न प्रत्ययेन । पक्षे प्रत्ययानुत्पत्तेर्महाविभाषयैव सिद्धत्वात् ।।
द्वितीयमेव द्विकम् ग्रन्थग्रहणमस्य, द्वितीयकम् ग्रन्थग्रहणमस्य एवं त्रिक व्याकरणस्य ग्रहणम्, तृतीयकं व्याकरणस्य ग्रहणम्, चतुष्कं चतुर्थकं पञ्चक पञ्चमकम् । ग्रन्थस्येत्येव ? द्वितीयं ग्रहणं धान्यस्य ।१७७। सस्याद्गणात्परिजाते ॥७ १. १७८ ॥
सस्यशब्दादगुणवाचिनस्तेनेति तृतीयान्तात्परिजातेऽर्थे कः प्रत्ययो भवति । परिः सर्वतोभावे, जनिः संपत्तौ, सस्येन परिजातः सस्यकः शालिः, यः सर्वतो गुणैः संपन्नो न यस्य किंचिदपि वैगुण्य मस्ति स एवमुच्यते । एवं सस्यको देशः, सस्यको वत्सः, सस्यकं सीधु, सस्यको मणिः । रूढिशब्दश्चायं मणिविषये ।
सस्यकः, खड्गः सर्वतः सारेण संबद्धः। गुणादिति किम् ! धान्यवचनान्मा भूत् । सस्येन परिजातं क्षेत्रम् ।१७८।
न्या० स० सस्या०-रूढिशब्दश्चेति गुणेन परिजातोऽस्तु वा मा वा समुदायप्रसिद्धया तु मणिविशेषस्य संज्ञा ।
धनहिरण्ये कामे ॥७. १. १७९ ॥ ___ धन हिरण्य इत्येताभ्यां निर्देशादेव सप्तम्यन्ताभ्यां कामेऽभिलाषेऽर्थे कः प्रत्ययो भवति ।