________________
६पाद. १. सू. १९२-१९५ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने सप्तमोऽध्यायः [ २५३ शृङ्खलं बन्धनमस्य शृङ्खलकः करभ उच्यते । करभाणां काष्ठमयं पादबधनं शृङ्खलम्, वयःशब्दश्चायम् । शृङ्खलं बन्धनं भवतु वा माभूत् ।१९१। उदुत्सोरुन्मनसि ॥ ७. १. १९२ ॥
उत् उत्सु इत्येताभ्यामस्येत्युन्मनस्यभिधेये कः प्रत्ययो भवति । उद्लें मनोऽस्य उत्कः, उत्सुगतं मनोऽस्य उत्सुकः,-उन्मना इत्यर्थः ।१९२॥
कालहेतुफलादोगे ॥ ७. १. १९३ ॥ ___ स इति वर्तते, स इति प्रथमान्तेभ्यः कालविशेषवाचिभ्यो हेतुबाचिभ्यः फलवाचिभ्यश्चास्येति षष्ठचर्थे कः प्रत्ययो भवति यत्तदस्येति निर्दिष्टं रोगश्रेत्तद्भवति ।
द्वितीयो दिवसोऽस्याविर्भावाय, द्वितीयकः, तृतीयकः, चतुर्थको ज्वरः, सततः कालोऽस्य सततको ज्वरः। हेतु,-विषपुष्पं हेतुः कारणमस्य विषपुष्पकः, काशपुष्पकः, पर्वतको रोगः । फल, शीतं फलं कार्यमस्य शीतकः, उष्णको ज्वरः । रोग इति किम् ? द्वितीयो दिवसोऽस्य जातस्य बालकस्य ।१९३।
न्या० स० काल०-स इति वर्तते इति अतः कारणनिर्देशादेव पञ्चम्यन्तेभ्य इति न लभ्यते । ननु कालस्यापि रोगकारणत्वाद् हेतुग्रहणेनैव तद्ग्रहणे सिद्धे किं कालग्रहणेन ? न, अन्यत्तो भवतोऽपि रोगस्यायमस्य काल इति रोगाधिकरणभूतस्य कालस्यासंबन्धित्वे विज्ञायमानेऽपि यथा स्यादित्येवमर्थम् । प्रायोऽन्नमस्मिन्नाम्नि ॥७. १. १९४ ॥
स इति वर्तते । स इति प्रथमान्तादस्मिन्निति सप्तम्यर्थे नाम्नि संज्ञायां विषये कः प्रत्ययो भवति यत्तत्प्रथमान्तं तच्चेदन्नं प्रायः प्रायेण भवति, प्रायशब्दोऽत्रान्नसमानाधिकरणो नियतलिङ्गसंख्या, प्रायः अकृत्स्नबहुत्वम् ।
___ गुडापूपाः प्रायेण प्रायो वान्नमस्यां गुडापूपिका पौर्णमासी, तिलापूपिका, कृशरिका, त्रिपुटिका । नाम्नीति किम् ? अपूपाः प्रायेण प्रायो वान्नमवन्तिषु ।१९४।
न्या० स० प्रायो०-नियतलिङ्गसंख्य इति अनव्ययं पुंलिङ्ग एकवचनान्तोऽदन्तश्च पूर्वस्तु सान्तोऽव्ययत्वादलिङ्गश्च ।
इत्याचार्य श्री हेमचन्द्रविरचितायां...सिद्धहेमचन्द्राभिधानस्वोपज्ञ० स० प्रथमः पादः । कुल्मासादण् ॥ ७. १. १९५॥ कुल्मासशब्दात्प्रथमान्तात्प्रायोऽन्नमस्मिन्नित्यर्थेऽण् प्रत्ययो भवति नाम्नि ।