________________
[ पाद. १. सू. १६२-१६७ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने सप्तमोऽध्यायः । २४७
इयतां पूरणः इयतिथः, इयतीनां पूरणी इयतिथी, कियतिथः, कियतिथी, यावतिथः, यावतिथी, तावतिथः, तावतिथी, एतावस्थिः , एतावतिथी ।१६१॥ षट्कतिकतिपयात्थट् ॥ ७. १. १६२॥ षट् कति कतिपय इत्येतेभ्यः संख्यापूरणे थट् प्रत्ययो भवति स च पित् ।
षण्णां पूरणः षष्ठः षष्ठी, कत्तीनां पूरणः कत्तिथः, कतिथी, कतिपयथः, कतिपयानां स्त्रीणां पूरणी कतिपयथी ।। षष्ठी वानादरे' (२-२-१०८) 'चतुर्थी' (२-२-५३) इति च निर्देशाथटि 'नाम सिदयव्यञ्जने" (१-१-२१) इति पदत्वं न भवति ।१६२॥ चतुरः ॥ ७. १. १६३ ॥
चतुर् इत्येतस्मात्संख्यापूरणे थट् प्रत्ययो भवति ।
चतुर्णी पूरणः चतुर्थः । चतसृणां पूरणवि चतुर्थी । योगविभाग उत्तरार्थः ।१६३। येयो चलुक च ॥ ७. १. १६४ ।।
चतुर् इत्येतस्मात्संख्यापूरमे य ईय इत्येतो प्रत्ययौ भवतः च इत्येतस्य लुक् च भवति । चतुर्णा पूरणः तुर्यः तुरीयः, तुर्या तुरीया। एवं च चैरूप्यं भवति ।१६।। द्वेस्तीयः ॥७. १. १६५ ॥
दिशब्दात्संख्यापूरप्पे तीयः प्रत्ययो भवति । द्वयोः पूरणः द्वितीयः द्वितीया ॥१६॥ वेस्तृ च ॥ ७. १. १६६ ॥
त्रि इत्येतस्मात्संख्यापूरमे तीयः प्रत्ययो भवति, तत्संनियोगे च त्रेस्तृ इत्ययमादेशो भवति ।
त्रयाणां पूरणः तृतीयः, तिसृणां पूरणी तृतीया ॥१६॥ पूर्वमनेन सादेश्वेन् ॥ ७. १. १६७ ।।
पूर्वमिति क्रियाविशेषणान्निर्देशादेव द्वितीयान्तात्केबलात्सादेः सपूर्वाश्चानेनेति तृतीयार्थे कर्तरि इन् प्रत्ययो भवतिः।।
केवलात्-पूर्वमनेन पूर्वी, पूर्विणो, पूर्विणः । अनेनेति कर्तृपदं, कर्ता च क्रियामन्तरेण न भवतीति कृतं भुक्तं पीतं चेति कांचित्क्रियामपेक्षते । विशे