________________
२४६ ]
बृहद्वृत्ति-लघुन्यास संबलिते [ पाद. १ सू० १५७ - १६१ ]
विशते पूरण : विंशतितमः विंशः, विंशतितमी, विंशी स्त्री, एकविंशतितमः | एकविंशः, द्वाविंशतितमः, द्वाविंशः, एकान्नत्रिंशत्तम, एकान्नत्रिंशः, त्रिशत्तमः त्रिंशः, चत्वारिंशत्तमः चत्वारिंशः, द्वाचत्वारिंशतमः द्वाचत्वारिंशः, पञ्चाशत्तमः पश्वाशः, अष्टपञ्चाशत्तमः अष्टपञ्चाशः । १५६ ।
शतादिमासार्धमाससंवत्सरात् ॥ ७ १ १५७ ॥
शतादिभ्यः संख्याशब्देभ्यो मास अर्धमास संवत्सर इत्येतेभ्यश्च संख्यापूरणे तमट् प्रत्ययो भवति ।
शतस्य पूरणः शततमः शततमी, एकशततमः सहस्रतमः, लक्षतमः, मासस्य पूरणो मासतमो दिवसः, अर्धमासतमः संवत्सरतमः । षष्ठयादेरित्येव सिद्धे शतादिग्रहणं संख्याद्यर्थम् । १५७। षष्टया दे संख्यादेः । ७. १.१५८ ॥
संख्या आदिरवयवो यस्य स संख्यादिः, ततोऽन्यस्मात् षष्ठयादेः षष्टिप्रभृतिभ्यः संख्याशब्देभ्यः संख्यापूरणे तमट् प्रत्ययो भवति, विकल्पापवादः ।
षष्ठेः पूरणः षष्टितमः सप्ततितमः अशीतितमः नवतितमः । असंख्यादेरिति किम् ? एकषष्टितमः, एकषष्टः, एकसप्ततितमः एकसप्ततः । विशत्यादेरिति विकल्प एव । १५८| नो मद् ।। ७. १. १५९ ॥
असंख्यादेः संख्याशब्दान्नकारान्तात्संख्यापूरणे मट् प्रत्ययो भवति, डटोsपवादः ।
,
पञ्चानां पूरणः पञ्चमः, पञ्चमी, सप्तम, अष्टमः, नवमः, दशमः । न इति किम् ? विशः । असंख्यादेरित्येव ? एकादशः, द्वादशः । १५९। पित्थिद बहुगणपूगसंघात् ॥ ७. १. १६० ॥
बहुगणपूगसंघ इत्येतेभ्यः संख्यापूरणे तिथट् प्रत्ययों भवति स च पित् । बहुना पूरणः बहुतिथः, बह्वीनां पूरणी बहुतिथी, गणतिथः, गणतिथी, पूगतिथः, पूगतिथी, संघतिथः, संघतिथी । संख्याविशेषणं संभवापेक्षम् । पित्करणं पुंवद्भावार्थम्, टकारो ङद्यर्थः । १६० ।
अतोरिथद । ७. १. १६१ ॥
अत्वन्तात्संख्या शब्दात्संख्यापूरणे इथट् प्रत्ययो भवति स च पित्, seisपवादः ।