________________
[ पाद. १. सु. १५५-१५६ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने सप्तमोऽध्यायः [ २४५ शतानां सह विशं शतसहस्रम्, त्रिंशम् एकादशम्, एवं सहस्राणामपि शते भवति । विशतिः सहस्राण्यधिकान्यस्मिन्सहस्राणां शते विशं शतसहस्रम्, त्रिशम्, एकादशम् । राजदन्त दिषु पाठाच्छतशब्दस्य पूर्वनिपातः ।
___ अधिकमिति किम् ? विंशतिः त्रिंशत् एकादश वा ऊना अस्मिन् शते । तत्संख्यमिति किम् ? विंशतिर्दण्डा अधिका अस्मिन् योजनशते, त्रिंशत्पणा अधिका अस्मिन् कार्षापणसहस्र, एकादश माषा अधिका अस्मिन् कार्षापणशते । अस्मिन्नित्ति किम् ? विंशतिरधिकास्माच्छतात् । शतसहस्र इति किम् ? एकादशाधिका बस्यां त्रिशति । शतिशद्दशान्ताया इति किम् ? षडधिका अस्मिन् सते, दसाधिका अस्मिन्सहस्रे । व्यपदेशिवद्भावाद्दशान्तत्वे शन्नित्येव क्रियते न तु दशन्निति । संख्याया इत्येव ? मोविंशतिः अधिका अस्मिन गोशते, न गोविंशतिशब्द एकविंशत्यादिवत्संख्याशब्दः ।१५४॥
न्या० स० अधि० - ननु दशान्तशतिशत इत्युक्तेऽपि शतिशतोः प्रत्ययत्वात् प्रत्ययग्रहणपरिभाषया तदन्तप्रतिपत्तिर्भविष्यति किं तयोरन्तरसंबन्धनेन !
सत्यं, अन्तग्रहणाभावे विंशलित्रिंशदादेरेच स्यात् , न त्वेकविशंत्येकत्रिंशदादेः, अन्तग्रहणे तु यावतः शतिशच्छब्दावन्तौ स्वस्तावतो ग्रहणं सिद्धम् । भवत्येवं तथापि संख्यानुवृत्तेः संख्या- , शब्दादुच्यमानः प्रत्ययः संख्यासमुदायादेकविंशत्यादेन स्यात् इत्याशझ्याह-संख्यासमुदायोपीत्यादि एकविंशत्यादेः समुदायस्य लोके पृथक् संख्यात्वेन रूढत्वादिति भावः ।
पूर्वनिपात इति सहस्राणां शतमिति कृते 'षष्ठ्यायत्ना०' ३-१-७६ इति समास्से प्रथमोक्तत्वात् सहस्रस्य पूर्वनिपाते प्राप्ते।
ऊना अस्मिन् शते इति योजनेष्वित्याध्याहार्यमन्यथा तत्संख्यत्वं न स्यात् । संख्यापूरणे डट् ॥ ७. १. १५५ ॥
संख्या पूर्यते येन तत्संख्यापूरणम्, संख्याया इति वर्तते । संख्याशब्दात्संख्यापूरणेऽभिधेये डट् प्रत्ययो भवति, अन्न सामर्थ्यात् षष्ठचन्तात्प्रत्ययो विज्ञायते, अत एव तदिति निवृत्तम् ।।
एकादशानां पूरणः एकादशः, एकादशसंख्यापूरण इत्यर्थः । एवं द्वादशः, त्रयोदशः, चतुर्दशः, एकादशी स्त्री। संख्याग्रहणं किम् ? एकादशानामुष्ट्रिकाणां पूरणो घटः । एकस्य तु पूरपाभावान्न ग्रहणम्, ध्यादेरित्यनुवृत्तेर्वा ।१५॥ विंशत्यादेर्वा तमट् ॥७. १. १५६ ।।
विंशत्येवमादिकायाः संख्यायाः संख्यापूरणे तमट् प्रत्ययो वा भवति, पक्ष डट् ।