________________
२४८ ] . बृहवृत्ति-लघुन्याससवलिते [पाद. १ स्० १६८-१७१ ] षावगमस्तु अर्थात् प्रकरणात् शब्दान्तरसंनिधेर्वा भवति । पूर्वी कटम्, पूर्वी ओदनम्, पूर्वी पयः। सादेः, कृतं पूर्वमनेन कृतपूर्वी कटम, भुक्तं पूर्वमनेन भुक्तपूर्वी ओदनम्, प्रीतं पूर्वमनेन पीतपूर्वी पयः। कृतपूर्वादिसमासात् प्रत्ययः क्तान्तं येनैव समानाधिकरणं तस्यैव कर्मतां वक्ति । न च वृत्तौ क्तान्तं कटादिना समानाधिकरणमिति कटादिगतं कर्मानुक्तमिति अतो द्वितीया ।१६७। इष्टादेः ॥ ७. १. १६८ ॥
इष्ट इत्येवमादिभ्यः सामर्थ्यात्प्रथमान्तेभ्योऽनेनेति तृतीयाणे कर्तरि इन प्रत्ययो भवति । इष्टमनेन इष्टी यज्ञ, पूर्ती श्राद्धे । 'व्याष्ये क्तेनः' (२-२-९९) इति कर्मणि सप्तमी। ___इष्ट, पूर्त, उपपादित, उपसादित, उपासित निगदित, परिगदित, निकटित, संकलित, परिकलित, संरक्षित, परिरक्षित, अचित, अगणित, अवमणित, अवकीर्ण, अवमुक्त, आयुक्त, गृहीत, अधीत, आम्नात, श्रुत, आसेवित, अवधारित, अवकल्पित, कृत, निराकृत, उपकृत, उपाकृत, अनुयुक्त, अनुगुणित, अनुगणित, गणित, परिंगणित, अनुपठित, निपठित, पठित, व्याकुलित, उद्गृहीत, कथित, निकथित, निषादित इतीष्टादिः ।१६८। श्राद्धमद्य भुक्तमिकेनौ ॥ ७. १. १९६ ॥
श्राद्धशब्दात्प्रथमान्तादद्यभुक्तमित्येवमुपाधिकादनेनेति तृतीयार्थे कर्तरि इक इन इत्येतौ प्रत्ययौ भवतः, श्राद्धशब्दः कर्मनामधेयं तत्साधने द्रव्ये वर्तित्वा प्रत्ययमुत्पादयति । श्राद्धमनेनाद्य भुक्त श्राद्धिकः, श्राद्धी । अधग्रहणादद्य भुक्ते श्राद्धे श्वः श्राद्धिकः श्राद्धी इति न भवति । भुक्तमिति किम् ? श्राद्धमनेनाध कृतम् ।१६९।
अनुपद्यन्वेष्टा ॥ ७. १. १७०॥ ___ अनुपदीति इन्नतं निपात्यते अन्वेष्टा चेत्प्रत्ययार्थो भवति, अनुपदमन्वेष्टा अनुपदी उष्ट्राणाम् । अनुपदी गवाम् ।१७०। दाण्डाजिनिकायःशलिकपार्श्वकम् ॥ ७. १. १७१ ॥
दाण्डाजिनिकाय:शूलिकशब्दौ इकण्प्रत्ययान्ती पार्श्व कशब्दश्च कप्रत्ययान्तौ निपात्यते अन्वेष्टा चेत्प्रत्ययार्थो भवति ।
दण्डाजिनं दम्भः तेनान्वेष्टा दाण्डाजिनिकः, यो मिथ्याव्रती परप्रसादार्थ