________________
२३६ ] बृहद्वृत्ति-लघुन्याससंवलिते [पाद. १ सू० १२१-१२६ ]
गोण्यादेश्वेकण् ॥ ७. १. १२१ ॥ ___गोण्यादिभ्य एकशालाशब्दाच्च तस्य तुल्ये इकण् प्रत्ययो भवति । गोण्यास्तुल्यं गौणिकम् अङ्गुलेरङ्गुल्या वा आङ्गलिकम्, एकशालाया ऐकशालिकम् ।
__ गोणी, अङ्गली, भरुजा, वभ्रु. बभ्रु, वल्गु, मण्डर, मण्डल, शष्कुली, हरि, मण्डु, कपि, भरु, खल, उदश्वित्, तरस् कुलिश, मुनि, रुरु, इति गोण्यादिः ।१२१॥ कर्कलोहिताट्टीकण् च ॥ ७. १. १२२ ॥
कर्कलोहितयब्दाभ्यां तस्य तुल्ये टीकण् प्रत्ययो भवति चकारादिकण् च ॥ शुक्लोऽश्वः कर्कः । तस्य तुल्यः कार्कीकः, कार्किकः, लौहितीकः, लौहितिकः । स्फटिकादिः अलोहितवर्णोऽप्युपाश्रयवशाद्यस्तथावभासते स एवमुच्यते, टकारो ड्यर्थः । कार्कीकी, लौहितीकी ।१२२। ___ न्या० स० कर्क०-ननु लोहितेन तुल्यस्य संभवो नास्ति, लोहितगुणयुक्तश्चेत् स्वयमेव लोहितो गुणान्तरयुक्तश्चेत् कथं लोहितेन तुल्यः स्यादित्याशक्यस्फटिकादेर्लोहितगुणयुक्तेन द्रव्येण तुल्यतां समर्थयितुमाह-अलोहितवर्णोपीत्यादि । वेविस्तृते शालशङ्कटौ ॥ ७. १. १२३ ॥
विशब्दाद्विस्तृतेऽर्थे शाल शङ्कट इत्येतौ प्रत्ययौ भवतः। विशाल:, विशङ्कटः विस्तृत इत्यर्थः । विनानानेत्यव्यये पृथग्भावे वर्तेते इति विनञ्भ्यां नानाजी प्रत्ययौ न वक्तव्यौ ।१२३। कटः ॥ ७. १. १२४॥
विशब्दाद्विस्तृतेऽर्थे कटः प्रत्ययो भवति । विकटः । १२४। संप्रोन्नेः संकीर्णप्रकाशाधिकसमीपे ॥७ १. १२५ ।।
सम प्र उद् नि इत्येभ्यो यथासंख्यं संकीर्णादिष्वर्थेषु कटः प्रत्ययो भवति । समः संकीर्णे संकटः, प्रात्प्रकाशे, प्रकटः, उदोऽधिके, उत्कटः, नेः समीपे निकटम् ।१२५॥ अवाकुटारश्चावनते ॥ ७. १. १२६ ॥
अवशब्दादवनतेऽर्थे कुटारश्चकारात्कटश्च प्रत्ययो भवति । अवकुटारः, अवकटः ।१२६।