________________
[पाद. १. सू. १२७-१३१ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने सप्तमोऽध्यायः [२३७
नासानतितद्वतोष्टीटनाटभ्रटम् ॥ ७. १. १२७ ॥
__ अवशब्दान्नासानती तद्वति च वाच्ये टीट' नाट भ्रट इत्येते प्रत्यया भवन्ति नासानतौ। नासाया नमनम् अवटीटम्, अवनाटम्, अवभ्रटम् । सा नासानतिविद्यते यस्मिन् स तद्वान् नासा पुरुषः, अपकृष्टो वार्थः । तत्र अवटीटा, अवनाटा, अवभ्रटा नासिका । अवटीटः, अवनाटः, अवभ्रटः पुरुषः। अवटीटम्, अवनाटम्, अवभ्रटं वा ब्रह्मदेयम् । अपकृष्टमपि हि वस्तु दृष्ट्वा लोको नासिकां नामयति ।१२७। नेरिनपिटकाश्चिकचिचिकश्चास्य ॥ ७. १. १२८ ॥
निशब्दान्नासानतौ तद्वति चाभिधेये इन पिट क इत्येते प्रत्यया भवन्ति तत्संनियोगे चास्य नेर्यथासंख्यं चिक् चि चिक् इत्येते आदेशा भवन्ति । चिकिनम्, चिपिटम्, चिक्कम्, नासिकानमनम् । चिकिना, चिपिटा, चिक्का, नासिका। चिकिनः, चिपिट:, चिक्कः पुरुषः । बहुवचनं रुढयर्थम् ।१२८॥
न्या० स० नेरिन०-चिकिनमिति नासिकाया नमनं शब्दान्तरेण निशब्दस्यार्थकथनम् । रूढ्यर्थमिति तेनाप्रकृष्टे अर्थे ब्रह्मदेयलक्षणे चिकिनमित्यादयो न भवन्ति । बिडबिरीसौ नीरन्ध्रे च ॥ ७. १. १२९ ॥
निशब्दान्नीरन्ध्रेऽर्थे नासान तितद्वतोश्च बिडबिरीस इत्येतौ प्रत्ययौ भवतः। निबिडाः निबिरीसाः केशाः, निबिडम् निबिरोसम् वस्त्रम्, नासिकाया नमनं निबिडम्, निबिरीसम् । निबिडा, निबिरीसा नासिका। निबिडो, निबिरीसौ मैत्रः। विधानसामर्थ्यात् षत्वं न भवति ।१२९। क्लिन्नाल्लश्चक्षुषि चिलू पिलू चुल चास्य ॥ ७. १. १३० ॥
क्लिन्नशब्दाच्चक्षुषि वाच्ये लः प्रत्ययो भवति तत्संनियोगे चास्य चिल पिल चुल इत्येते आदेशा भवन्ति । चिल्लम् , पिल्लम चुल्लम् चक्षुः । तद्योगात्पुरुषोऽपि चिल्लः, पिल्लः चुल्लः । १३० ।
उपत्यकाधित्यके ॥ ७. १. १३१ ॥ । उपत्यका अधित्यका इत्येतौ शब्दौ निपात्येते । उपाधिशब्दाभ्यां यथासंख्यम् पर्वतस्यासन्नायामधिरूढायां च भुवि त्यकः प्रत्ययो निपात्यते । उपत्यका, अधित्यका । क्षिपकादित्वादित्वाभावः । स्वभावतः स्त्रीलिङ्गावेतौ । पूलिङ्गावपीति कश्चित् उपत्यको देशः, अधित्यकः पन्थाः, निपातनं रूढयर्थम् । १३१ ।