________________
[ पाद. १. सू. ११६-१२०] श्रीसिद्धहेमचन्द्रशब्दानुशासने सप्तमोऽध्यायः [ २३५ भवति तथा माणवकोऽपि विनीयमानो विद्यालक्ष्भ्यादिभाजनं भवतीति द्रव्यमुच्यते ॥ कार्षापणमपि विनियुज्यमानं विशिष्टेष्टमाल्याधुपभोगफलं भवति इति द्रव्यमुच्यते । द्रुरिव द्रव्यं राजपुत्रः, यथा द्रुमः पुष्पफलादिभिरथिनः कृतार्थयति एवमन्योऽपि यः सोऽपि द्रव्यमुच्यते । भव्य इति किम् ? द्रुतुल्योऽयं न चेतयते । ११५ । कुशाग्रादीयः ॥ ७. १. ११६ ॥
कुशाग्रशब्दात्तस्य तुल्ये ईयः प्रत्ययो भवति, कुशाग्रस्य तुल्यं कुशाग्रीयं शस्त्रम् तदाकारत्वात् । कुशाग्रीया बुद्धिः, तीक्ष्णत्वात् ॥ ११६ ॥ काकतालीयादयः ॥ ७. १. ११७ ॥
काकतालीयादयः शब्दा ईयप्रत्ययान्ताः साधवो भवन्ति तस्य तुल्येऽभिधेये । काकश्च तालश्च काकतालम् , यथा कथंचिद्वजतः काकस्य निपतता तालेनातकितोपनतश्चित्रीयमाणः संयोगो लक्षणयोच्यते तत्तुल्यं काकतालीयम् , एवं खलतिबिल्वीयम् , अन्धकश्च वर्तिका च अन्धकवतिकम् , अत्रान्धकस्य वर्तिकाया उपरि अकितः पादन्यास उच्यते, अन्धकस्य बाहूत्क्षेपे वर्तिकायाः करे निलयनं वा तत्तुल्यमन्धकवतिकीयम् । अजया पादेनावकिरत्यात्मवधाय कृपाणस्य दर्शनमजाकृपाणम् तत्तुल्यमजाकृपाणीयम् , एवंविधचित्रीकरणविषयाः काकातालीयादयः । निपातनं रूढयर्थम् । बहुवचनादन्येऽपि, अर्धजरतीय , घुणाक्षरीय मित्यादि । ११७ । शर्करादेरण् ॥ ७. १. ११८ ॥
शर्करादिभ्यस्तस्य तुल्येऽण् प्रत्ययो भवति । शर्करायास्तुल्यं शार्करं दधि मधुरत्वात् । शार्करी मृत्तिका कठिनत्वात् ।
शर्करा, कपालिका, कम्वाष्टिका, गोपुच्छ गोलोमन् पुण्डरीक, शतपत्र, नराची, नकुल, सिकता, कपाटिका । इति शर्करादिः । ११८ ।
अः सपल्याः ॥७. १. ११९ ॥ सपत्नीशब्दात्तस्य तुल्ये अः प्रत्ययो भवति । सपन्यास्तुल्यः सपत्नः । ११९। एकशालाया इकः ॥ ७. १. १२० ॥
एकशालाशब्दात्तस्य तुल्ये इकः प्रत्ययो भवति । एकशालायास्तुल्यमेकशालिकम् ।१२०।