________________
२३४ ]
बृहद्वृत्ति-लघुन्याससंवलिते [पाद. १ सू. १११-११५ । कानां जीविकार्थाः प्रतिकृतय उच्यन्ते । अपण्य इति किम् ? हस्तिकान्. विक्रीणीते । जीवन इति किम् ? क्रीडने निषेधो मा भूत् । हस्तिकः ।११०। देवपथादिभ्यः ॥ ७. १. १११ ।।
देवपथ इत्येवमादिभ्यस्तुल्ये संज्ञाप्रतिकृत्योः कः प्रत्ययो न भवति । देवपथस्य तुल्यः देवपथः, एवं हंसपथः ।
देवपथ, हंसपथ, अजपथ, वारिपथ, राजपथ, शतपथ, शङ्कपथ, स्थलपथ, सिन्धुपथ, उष्ट्रग्रीवा, वामरज्जु, हंस, (हस्त) इन्द्र, दण्ड, पथ्य (पुष्प) मत्स्य, इति देवपथादिः । बहुवचनमाकृतिगणार्थम् , पूर्वयोगावस्यैव प्रपञ्चः । १११ ।
वस्तेरेयञ् ॥ ७. १. ११२ ॥ ___ तस्य तुल्य इति वर्तते न संज्ञाप्रतिकृत्योरिति । वस्तिशब्दात्षष्ठयन्तात्तुल्येऽर्थे एयञ् प्रत्ययो भवति । वस्तेस्तुल्यं वास्तेयम् , वास्तेयो प्रणालिका ।११२।
न्या० स० वस्ते०-न संज्ञेति प्रत्ययान्तरोपादानात् । शिलाया एयच्च । ७. १. ११३ ॥
शिलाशब्दात्षष्ठयन्तात्तुल्येऽर्थे एयच् प्रत्ययो भवति चकारादेयञ् च । शिलायास्तुल्यं शिलेयं दधि, शिलेयी इष्टका, शैलेयं दधि, शैलेयी इष्टका। चकारः 'अणजेयेकण्'-(२-४-२०) इति एयस्य सामान्यग्रहणाविधातार्थः । अन्यथा ह्यस्यैव स्यात् , अन्ये तु द्रव्यशब्दवदेयजन्तं स्त्रियां नास्तीत्याहुः । ११३ ।
न्या० स० शिला०-द्रव्यशब्दवदिति यथा द्रोभव्ये इति तुल्यार्थे ये द्रव्यशब्दो नियतं लिङ्गमाह एवं शिलेयमिति । शाखादेर्यः ॥ ७. १. ११४ ॥
शाखा इत्येवमादिभ्यस्तस्य तुल्ये यः प्रत्ययो भवति । पुरुषस्कन्धस्य वक्षस्कन्धस्य वा तिर्यक् प्रसृतमङ्गं शाखेत्युच्यते, तद्यथा शाखा पायता तथा कुलस्य यः पाश्र्वायतोऽङ्गभूतः स शाखायास्तुल्यः शाख्यः, मुख्यः, जघन्यः ।
शाखा, मुख, जघन, स्कन्द, स्कन्ध, मेघ, शृङ्ग, चरण, शरण, उरस् , शिरस् , अन । इति शाखादिः । ११४ । द्रोभव्ये ॥ ७. १. ११५॥
द्रुशब्दात्तस्य तुल्ये भव्येऽभिधेये यः प्रत्ययो भवति । विशिष्टेष्टपरिणामेन भवतीति भव्यम् अभिप्रेतानामर्थानां पात्रम् । द्रुतुल्यः द्रव्यमयं माणवकः, द्रव्यं कार्षापणम् , यथा द्रु अग्रन्थि अजिह्म दारु उपकल्प्यमानविशिष्टेष्टरूपं