________________
[ पाद १. सू. १०८-११० ] श्रीसिद्धहेमचन्द्रशब्दानुशासने सप्तमोऽध्यायः [२३३
ननु दिशः स्त्रोत्वमव्यभिचारि तत्किमत्र स्त्रीग्रहणेन? इत्याह-स्त्रीग्रहणमिति-बीलिङारहितायां दिश्यञ्चत्यन्तवाच्यायां प्रत्युदाहरति प्राक्प्राचीनं रमणीयमित्यादिना। नपुंसकमिति प्रागिति धातुलुबन्तम् , अव्ययत्वाल्लिङ्गायोग्यं, प्राचीनं च स्वार्थिकान्तत्वात् तद्वत् तथापि स्वभावान्नपुंसकं, अन्यथा अभेदे अलिङगत्वं भेदे तु स्त्रीलिङ्गत्वं स्यात् ।
नित्यार्थमिति ‘अषडक्ष' ७-१-१०७ इत्यत्र सूत्रे वाक्यं त्वलौकिकम् । तस्य तुल्ये कः संज्ञाप्रतिकृत्योः ॥ ७. १. १०८॥
तस्येति. षष्ठयन्तात्तुल्ये सदशेर्थे कः प्रत्ययो भवति संज्ञाप्रतिकृत्योः संज्ञायां प्रतिकृतौ च विषये । प्रतिकृतिः काष्ठादिमयं प्रतिच्छन्दकम्, अश्वस्य तुल्यः अश्वकः, उष्ट्रकः, गर्दभकः । अश्वादिसदृशस्य संज्ञा एताः । प्रतिकृतिः, अश्वकम् रूपम् । अश्विका प्रतिमा, अश्वकानि रूपाणि । तुल्य इति किम् ? इन्द्रदेवः । एवंनामा कश्चित्, नात्र सादृश्यम् । संज्ञाप्रतिकृत्योरिति किम् ? गोस्तुल्यो गवयः । संज्ञा ग्रहणमप्रतिकृत्यर्थम्, एके स्वाहुः-तुल्यमाने प्रत्ययः,-शिव इव शिवकः ।। १०८ ।।
न्या० स० तस्य -संज्ञा एता इति एवं नामानः पशुविशेषा, न तु प्रतिबिम्बानि । इन्द्रदेव इति षष्ठ्यन्तादभेदे इन्द्रदेवस्य संबन्धी इन्द्रदेवः, इन्द्रदेवक इत्युक्ते संज्ञा प्रतीयत इति न द्वयङ्गविकलता।
गोस्तुल्य इति न हि गोक इति कप्रत्ययान्तेन संज्ञा प्रतीयते । न नृपूजार्थध्वजचित्रे ।। ७. १. १०९ ॥
नरि मनुष्ये पूजार्थे ध्वजे चित्रे च चित्रकर्मणि अभिधेये कः प्रत्ययो न भवति, तत्र सोऽयमित्येवाभिसंबन्धः । संज्ञाप्रतिकृत्योरिति यथासंभवं प्राप्ते प्रतिषेधोयम् । नृ, चञ्चा तृणमयः पुरुषः, यः क्षेत्ररक्षणाय क्रियते । चञ्चातुल्यः पुरुषश्चश्चा, एवं वध्रिका, खरकुटी, पूजार्थ, अर्हन्, शिवः, स्कन्दः । पूजनार्थाः प्रतिकृतय उच्यन्ते । ध्वज, गरुडः, सिंहः, तालो, ध्वजः, चित्र, दुर्योधनः, भीमसेनः ।। १०९ ॥
न्या० स० न नृ०-तत्रेति निषेधे सतीत्यर्थः। सोयमिति चञ्चातुल्य पुरुषोऽभेदोपचारेण चचा, अतश्चञ्चा पुरुष इत्यादौ सामानाधिकारण्यम् तथा चान्यैरिव प्रत्ययस्य लुप् न वक्तव्या ।
यथासंभवमिति मनुष्ये संज्ञायां पुजार्थादिषु प्रतिकृती प्राप्तिः । अपण्ये जीवने ।। ७. १. ११० ॥
जीवन्त्यनेनेति जीवनम् । पण्यं विक्रेतव्यम् । पण्यजितं यज्जीवनं तस्मिन् कः प्रत्ययो न भवति । वासुदेवसदृशः वासुदेवः, शिवः स्कन्दः विष्णुः, देवल.