________________
२३२ ] बृहवृत्ति-लघुन्याससकालते . [ पाद. १. सू० १०६-१०७ । र्पणात्कर्म करोति स आगवीनः, रूढिशब्दोऽयम् । यत्किंचिदादाया तस्य, प्रतिदानात्कर्मकर एवमुच्यते इत्येके, अन्ये तु आ गोः प्राप्तेः कर्म कारी आगवीन इत्याहुः । साप्तपदीनेति सप्तपदशब्दात्तृतीयान्तात्तदवाप्येऽर्थे ईन यत्तदवाप्यं तच्चेत्सख्यं सखा वा भवति । सप्तभिः पदैरवाप्यम् साप्तपदीनं सख्यम्, साप्तपदीनः सखा, साप्तपदीनं मित्रम् ॥१०॥
न्या० स० समास-द्वितीयेति ननु समायाः कथं व्याप्तिरेकदेशे एव गर्भग्रहणात् !
सत्यं, अवयवे समुदायोपचारात् । एकमिति पूर्वोक्तनीत्या विजनिष्यमाणे भविष्यति चाऽथे इत्यर्थः । अषडक्षाशितंग्वलंकलिंपुरुषादीनः ॥ ७ १. १०६ ।।
अषडक्ष, आशितंगु, अलंकर्मन्, अलंपुरुष, इत्येतेभ्यः स्वार्थे ईनः प्रत्ययो भवति । अविद्यमानानि षडक्षीण्यस्मिन् अषडक्षीणो मन्त्रः, सक्थ्यक्ष्णः स्वाङ्गे' (७-३-१२६) इति टान्तादीनः। अषडक्षीणा क्रीडा, द्वाभ्यां साध्यत इत्यर्थः। अषडक्षीणः कन्दुकः, येन द्वौ क्रीडतः। अदृश्यानि षडक्षीण्यस्य अषडक्षीणश्चैत्रः पितुः पितामहस्य पुत्रस्य वा द्रष्टोच्यते । इन्द्रियपर्यायो वाक्षशब्दः । अविद्यमानानि षडक्षाण्यस्याषडक्षीणोऽमनस्कः । विचारेण विना प्रवर्तते इत्यर्थः । आशिता गावोऽस्मिन्निति आशितंगु, अस्मादेव निपातनात्पूर्वपदस्य मोऽन्तः। तत् ईनः । आशितंगवीनमरण्यम्, अलं कर्मणे अलं पुरुषाय 'प्रात्यवपरि'-(३-१-४७) इत्यादिना समास: तत ईनः। अलंकर्मीणः, अलंपुरुषीणः । राजाधीनमिति त्वधीनेन शाण्डादित्वात्सप्तमीसमासः । अस्ति चाधीनशब्दः । अस्मास्वधीनं किमु निःस्पृहाणाम् इति, वाक्यं हि वक्तर्यधीनं भवति इति, तदेतत् प्रयोक्तर्यधीनं भवतीति ।१०६।
अदिस्त्रियां वाञ्चः ॥ ७. १. १०७ ।। ___ अञ्चत्यन्तान्नाम्न ईनः प्रत्ययो वा भवति स्वार्थे न चेत्स दिशि स्त्रियां वर्तते । प्राक् प्राचीनम्, प्रत्यक् प्रतीचीनम्, उदक उदीचीनम्, अवाक् अवाचीनम्, सम्यङ् समीचीनः । अदिस्त्रियामिति किम् ? प्राची उदीची दिक् । दिग्ग्रहणं किम् ? प्राचीना शाखा, अवाचीना. ब्राह्मणी, स्त्रीग्रहणं किम ? प्राक् प्राचीनं रमणीयम् । दिश्यपि लुबन्तं स्वभावात् नपुंसकम्, वाद्यात् (६-१-११) इति विकल्पे लब्धे वाग्रहणं पूर्वत्र नित्यार्थम् ।१०७।
न्य० स० अदिग्-प्रसज्योऽयं नञ् दिगूलक्षणा स्त्री चेन्न भवतीति न तु अदिग्: लक्षणायां नियामितिपर्युदासस्तेन पुंक्लीबयोरपि भवति ।