________________
पाद १. सू. १०१ - १०५ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने सप्तमोऽध्यायः [ २३१
पारावारं व्यस्त व्यत्यस्तं च ॥ ७ १. १०१ ॥
पासवारशब्दात्समस्ताव्यस्ता व्यत्यस्ताच्च निर्देशादेव द्वितीयान्ताद्भामिन्यर्थे ईनः प्रत्ययो भवति । पाराबारं गामी पारावारीण, पारीणः, अवारीण, अवारपारीणः । १०१।
अनुग्वलम् ॥ ७ १. १०२ ॥
अनुगुशब्दा द्वितीयान्तादलंगामिनि ईनः प्रत्ययो भवति । अलं पर्याप्तिमित्यर्थः । गवां पश्चादनुगु तदलं गामी अन्गबीनो गोपालकः । १०२ ।
अध्वानं येनौ ।। ७. १. १०३ ॥
अलं गामिनीति वर्तते । अध्वन्शब्दान्निर्देशादेव द्वितीयान्तादलंगामिनि य ईन इत्येतौ प्रत्ययौ भवतः । अध्वानमलं गामी अध्वन्यः अध्वनीनः । १०३ । अभ्यमित्रमीयश्च ।। ७. १. १०४ ॥
अभ्यमित्र शब्दा निर्देशादेव द्वितीयान्तादलंमामिनिः ईमः प्रत्ययो भवति चकाराद्येनौ च | अभ्यमित्रमलंगामी अभ्यमित्रीयः अभ्यमित्र्यः, अभ्यमित्रीणः, अमित्राभिमुखं भृशं गन्तेत्यर्थः ।१०४। समांसमीनाद्यश्वीनाद्यप्रातीनागवीन साप्तपदीनम् ॥७. १. १०५ ॥
समांसमीनादयः शब्दा ईनप्रत्ययान्ता निपात्यन्ते । साप्तपदीनस्त्वीनञ्प्रत्ययान्तः । समांसमीनेति समांसमामिति वीप्साद्वितीयान्तात्समुदायाद्गर्भ धारयत्यर्थे ईनः पूर्वपदविभक्तेश्वालुप् । समां समां गर्भं धारयति समांसमीना गौः । समामिति ' कालाध्वनोर्व्याप्तौ ' (२ - २ - ४२ ) इति द्वितीया ।
अन्ये समायां समायां विजायते गर्भं विमुञ्चति समांसमीनेति पूर्वपदस्य यलोपमाहुः | व्याप्त्यभावाच्चाधिकरणे सप्तमी । अद्यश्वीनेति अद्यश्व:शब्दयोर्वार्थे समासः विजनिष्यमाणेऽर्थे बिजननस्य प्रत्यासत्तौ गम्यमानायामीनः । अद्य श्वो वा विजनिष्यमाणा अद्यश्वीना गौः । एवं नाम प्रत्यासन्नप्रसवेत्यर्थः । अन्ये तु प्रत्यासत्तौ गम्यमानायां भविष्यत्यर्थे प्रत्ययमाहुः । अद्य श्वो वा भविष्यति अद्यश्वीनो लाभ:, अद्यश्वीनं मरणम्, एवमद्य प्रातःशब्दादीनः, अद्यप्रातीना गौः, अद्यप्रातीनो लाभः, अद्यप्रातीनं मरणम्, आगबीनेति आगोप्रतिदानशब्दात्कारिण्यर्थे ईनः प्रतिदानशब्दस्य च लुक् । आगो - प्रतिदानं कारी आगवीनः कर्मकरः । गवा भृतो य आ तस्या गोः प्रत्य