________________
२३० J
बृहद्वृत्ति-लघुन्याससंवलिते [ पाद. १ सू० ९८- १००
मच्छन्ति केचित्प्रसव्यम्, तेषां गतिरयसहितोऽनयोऽयानय इत्युच्यते । यस्मिन् परशारैः पदानामप्रवेशः तदुभयं नेयः अयानयीन इति रूढिः । अथवा अयः शुभं देवम्, अनयोऽशुभम् । शुभाद्दवादपवर्ततेऽशुभं दैवं यस्मिन् कर्मणि तदयानयं शान्तिकर्म चतुःशरणप्रतिपत्तिरनाघातघोषणं देवगुरुपूजा तपो दानं ब्रह्मचर्यादिनियमः तद्यो नेयः कारयितव्यः सोऽयानयीन ईश्वर इति । ९७ ।
न्या० स० अया० - अयानयं नेय इति कर्मणि द्वितीया, यद्यपि नेयशब्देन कर्माभिधीयते तथापि अयान्यशब्दाद् द्वितीया भवत्येव द्विकर्मकत्वात् शार इत्येतदेव हि कर्माभिहितं नेतरत् ।
यस्मिन्निति दक्षिणगमने वामगमने च परशारा बाधिता भवन्ति, तस्मिन् परशारैः कर्तृभिः पदानां गृहाणां कर्मभूतानां स्वशारैर्बंद्धत्वात् अप्रवेशः
रूढिरिति प्रदक्षिणप्रसव्यगामी च शारो मीयमानो न सर्वोऽयानयीन इत्युच्यते अपि तु कश्चिदेवेति, अयमर्थः, यत्र फलके अक्षैर्दीव्यन्ति तस्य यच्छिरोभूतं स्थानं कितवानां प्रसिद्ध सत्रस्थ एव शारोऽयानयीनः ।
सर्वान्नमत्ति ॥ ७ १. ९८ ॥
सर्वान्नशब्दाद्वितीयान्तात् अत्तीत्यस्मिन्नर्थे ईनः प्रत्ययो भवति, सर्वशब्दः प्रकारकात्स्र्त्स्न्ये । सर्वप्रकारमन्नं सर्वान्नम् तदत्ति सर्वान्तोनो भिक्षुः नियमरहितः । ९८ ।
परोवरीणपरंपरी णपुत्रपौत्रीणम् ॥ ७. १. ९९ ॥
परोवरीणादयः शब्दा अनुभवत्यर्थे ईनप्रत्ययान्ता निपात्यन्ते । परावरशब्दाद्द्द्वितीयान्तादनुभवत्यर्थे ईनः प्रत्ययोऽवरशब्दाकारस्य चोत्वं प्रत्ययसंनियोगे निपात्यते । परांश्चावरांश्चानुभवति परोवरीणः, पारोवर्यमित्यत्रातीतक्रमवाचि परोवरमिति शब्दान्तरम् । परंपरीणेति परपरतरशब्दात् द्वितीयान्तादनुभवत्यर्थे ईनः परंपरभावश्च परान् परतरांश्चनुभवति परंपरोणः । मन्त्रिपरंपरा मन्त्रं भिनत्तीत्यत्र परम्पराशब्द आबन्तो बाहुल्यार्थः प्रकृत्यन्तरम्, पुत्रपौत्रीणेति पुत्रपौत्रशब्दात् द्वितीयान्तादनुभवत्यर्थे ईनः । पुत्रांश्च पौत्रांश्वानुभवति पुत्रपौत्रीण १९९ ।
न्या० स० परो० - पारोवर्यमिति यदि प्रत्ययसंनियोगे ओत्वं तत्कथमत्र तदभावे इत्याशङ्का |
यथाकामानुकामात्यन्तं गामिनि ॥ ७ १. १०० ॥
यथाकामानुकाम अत्यन्त इत्येतेभ्यो निर्देशादेव द्वितीयान्तेभ्यो गामिन्यर्थे ईन : प्रत्ययो भवति । यथाकामं गामी यथाकामीनः, अनुकामीन:, यथेच्छं गामीत्यर्थः । अत्यन्तं गामी अत्यन्तीनः भृशं गन्तेत्यर्थः । १०० ।