________________
T
पाद. १. सू. ९४-९७ ] श्री सिद्धहेमचन्द्रशब्दानुशासने सप्तमोऽध्यायः
[ २२९
संमुखम्, समं मुखमस्यानेनेति वा संमुखं प्रतिबिम्बमेव, अत एव निपातना - त्समशब्दस्य अन्तलोपः, संमुखं दृश्यतेऽस्मिन्निति संमुखीनः यथामुखीनः सीताया इति । संमुखीनो हि जयो रन्ध्रप्रहारिणामिति च उपमानात् । ९३॥ न्या० स० यथा०—अन्तलोप इति ननु सम्शब्द एव वृत्तिविषये समशब्दस्यार्थे वर्त्तिष्यते ततः किं समस्यान्तलोपेन १
उच्यते, समशब्दस्यापि विशेषण समासादौ मुखशब्देन संमुख इति यथा स्यादित्येवमर्थम् ।
सर्वादेः पथ्यङ्गकर्म पत्रपात्रशरावं व्याप्नोति ।। ७. १. ९४ ॥
सर्व शब्दपूर्वेभ्यः पथिन्, अङ्ग, कर्मन्, पञ्च, पात्र, शराव इत्येतदन्तेभ्यो निर्देशादेव द्वितीयान्तेभ्यो व्याप्नोतीत्यर्थे ईनः प्रत्ययो भवति । सर्वपथं च्याप्नोति सर्वपथीनो रथः । सर्वपथान् व्याप्नोति सर्वपथीनमुदकम् । एवं सर्वाङ्गीणस्तापः । सर्वकर्मीणः पुरुषः सर्वपत्रीणः सारथिः सर्वपात्रीण ओदनः, सर्वशरावीण ओदनः सर्वादेरिति किम् ? पन्थानं व्याप्नोति ॥९४ |
आमपदम् ।। ७. १. ९५ ॥
प्रगतं पदं प्रपदम् पदाग्रमित्यर्थः, अथवा प्रवृद्धं पदं प्रपदम् पदस्योपरिष्टात् संस्था खलुको गुल्फ इति यावत्, आङ मर्यादायामभिविधौ वा । आ प्रपदात् आप्रपदम् 'पर्याङ् ' - ( ३-१-३२ ) इत्यव्ययीभावः । आप्रपदशब्दान्निर्देशादेव द्वितीयान्तात् व्याप्नोतीत्यर्थे ईनः प्रत्ययो भवति ।
"
आप्रपदं व्याप्नोति न तदतिवर्तते यः स आप्रपदीनः पटः, अनेन पटस्य प्रमाणमाख्यायते । ९५ ।
अनुपदं बद्धा ।। ७. १. ९६ ॥
अनुपदशब्दा निर्देशादेव द्वितीयान्ताद्वद्वा इत्येतस्मिन्नर्थे ईनः प्रत्ययो भवति । अनुपदं बद्धा अनुपदीना उपानत् । पदप्रमाणेत्यर्थः । अनुपदमिति ' दैर्घ्येऽनुः ' - ( ३-१-३४ ) इत्यव्ययीभावः । ९६।
न्या० स० अनु० – अनुपदमिति पदं लक्ष्यीकृत्यायतं बन्धनमिति क्रियाविशेषणत्वात् द्वितीयाभेदोपचाराद् बद्धेत्युच्यते ।
अयानयं नेयः ।। ७. १.९७ ॥
अयानयशब्दान्निर्देशादेव द्वितीयान्तान्नेय इत्येतस्मिन्नर्थे ईनः प्रत्ययो भवति । अयानयं नेयोऽयानयीनः शारः, फलकशिरसि स्थित उच्यते । अयः प्रदक्षिणं गमनम् अनयः प्रसव्यं वामम्, शारिद्यूते हि केचिच्छाराः प्रदक्षिणं