________________
बृहद्वृत्ति - लघुन्याससंवलिते
[ पाद. १ सू. ८८-९३ ]
२२८ ]
पाक: पीलुकुणः, कर्कन्धुकुणः ।
पीलु, कर्कन्धु, शमी, करीर, बदर, कुवल, अश्वत्थ खदिर इति
पीत्वादिः ॥८७॥
G
कर्णादेर्मूले जाहः ॥ ७. १. ८८ ॥
कर्णादिभ्यः षष्ठ्यन्तेभ्यो मूलेऽर्थे जाहः प्रत्ययो भवति । कर्णस्य मूलं कर्णजाहम्, अक्षिजाहम् ।
कर्ण, अक्षि, आस्य, वक्त्र, नख, मुख, केश, दन्त, ओष्ठ, भ्रू, शृङ्ग, पाद, गुल्फ, पुष्प, फल इति कर्णादिः १८८
पक्षातिः ॥ ७. १. ८९ ॥
पक्षशब्दात्षष्ठ्यन्तान्मूलेऽर्थे तिः प्रत्ययो भवति । पक्षस्य मूलं
पक्षतिः १८९ ।
न्या० स० पक्षा० – पक्षतिरिति मूलेप्यभिधेये शब्दशक्तिस्वाभाव्यात् स्त्रीलिङ्गः । हिमालः सहे ।। ७. १. ९० ॥
हिमशब्दात्षष्ठयन्तात्सहे सहमानार्थे एलुः प्रत्ययो भवति । हिमस्य सहः हिमं सहमान: हिमेलुः ॥९० |
बलवातादूलः ।। ७. १. ९१ ॥
बलवात इत्येताभ्यां षष्ठयन्ताभ्यां सहेऽर्थे ऊलः प्रत्ययो भवति । बलस्य सहः बलं सहमानः बलूल:, वातूलः ॥९१॥
न्या० स० बल० – वातूल इति वातसहः, वातासहोऽप्येतदर्थ एवेति शब्दभेदः ।
शीतोष्णतृप्रादालुरसहे । ७. १. ९२ ।।
शीत, उष्ण, तृप्त इत्येतेभ्यः षष्ठयन्तेभ्योऽसहेऽसहमानेर्थे आलुः प्रत्ययो भवति । शीतस्यासहः शीतमसहमानः शीतालुः, उष्णालुः, तृप्रालुः, तृप्रम् दुःखम् ।९२।
यथाखमुसंमुखादीनस्तद्दश्यते ऽस्मिन् ।। ७. १.९३ ।।
यथामुखसंमुख इत्येताभ्यां तदिति प्रथमान्ताभ्यामस्मिन्निति ईनः प्रत्ययो भवति यत्तत्प्रथमान्तं दृश्यते चत्तद्भवति, यथामुखं दृश्यतेऽस्मिन् यथामुखीनः आदर्शादि: मुखस्य सदृशोऽर्थो यथामुखं प्रतिबिम्ब उच्यते, अत एव निपातनाद्यथाथा ( ३-१-४१ ) इति प्रतिषेधेऽप्यव्ययीभावः । समं मुखं