________________
[ पाद. १. सू. ८०-८७ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने सप्तमोध्यायः [ २२७ क्षेत्र कौलत्थीनम्, मौद्गीनम्, प्रेयङ्गवीणम्, नैवारीणम्, कौद्रवीणम् १७९। बीहिशालेरेयण ।। ७. १. ८० ॥
व्रीहिशालि इत्येताभ्यां तस्य क्षेत्रे एयण् प्रत्ययो भवति, ईनोऽपवादः । व्रीहेः क्षेत्रं हेयम्, शालेयम् ।८।
यवयवकषष्टिकांद्यः ॥ ७. १. ८१ ।।
यवयवकषष्टिक इत्येतेभ्यस्तस्य क्षेत्रे यः प्रत्ययो भवति, ईनोऽपवादः । यवानां क्षेत्रं यव्यं, यवक्यं, षष्टिक्यम्, षष्टिरात्रेण पच्यमाना व्रीहयः षष्टिकाः, अतः एव निपातनात् सिद्धिः ।८१। वाणुमाषात् ॥ ७. १. ८२ ॥
अणुमाष इत्येताभ्यां षष्ठयन्ताभ्यां क्षेत्रेऽर्थे यः प्रत्ययो भवति वा, पक्षे ईनञ् । अणूनां क्षेत्रमणव्यम्, आणवीनम्, माष्यम्, माषीणम् ।८२। . वोमाभङ्गातिलात् ॥ ७. १. ८३ ॥
उमाभङ्गातिल इत्येतेभ्यः षष्ठयन्तेभ्यः क्षेत्रेऽर्थे यः प्रत्ययो वा भवति, पक्षे ईन । उमाभङ्गे अपि धान्ये एवेष्येते । उमानां क्षेत्रम् उम्यम् औमीनम्, भङ्गयम्, भाङ्गीनम्, तिल्यम्, तैलीनम्, योगविभाग उत्तरार्थः ।८३। अलाब्वाश्च कटो रजसि ॥ ७. १. ८४ ॥
अलाबूशब्दाच्चकारादुमाभङ्गातिलेभ्यश्च षष्ठयन्तेभ्यो रजस्यर्थे कटः प्रत्ययो भवति । अलाबूनां रजः अलाबूकटम्, उमाकटम्, भङ्गाकटम्, तिलकटम् ।८४। अह्ना गम्येऽश्वादीनञ् ॥ ७. १, ८५ ॥
तस्येति षष्ठ्यन्तादश्वशब्दादेकेनाहा गम्येऽर्थे ईनञ् प्रत्ययो भवति । अश्वस्यैकेनाह्ना गम्यः आश्वीनोऽध्वा, अङ्केति किम् ? अश्वस्य मासेन गम्यः ।८५। कुलाज्जल्पे ॥ ७. १. ८६ ॥
तस्येति षष्ठ्यन्तात्कुलशब्दाज्जल्पेऽर्थे ईनञ् प्रत्ययो भवति । कुलस्य जल्प: कौलोनम् ।८६। पील्वादेः कुणः पाके ॥७. १.८७ ॥ पीलु इत्यादिभ्यः षष्ठयन्तेभ्यः पाकेऽर्थे कुणः प्रत्ययो भवति । पीलूनां ..