________________
२२६ ]
बृहवृत्ति-लघुन्याससंवलिते [पाद. १ स्० ७६-७९ ] साध्यत्वादिति भावकर्मभ्यां कर्तृभ्यां श्लाघादयो यत्र साध्यन्ते इति तात्पर्यम् , विषयभाव इत्यादिना श्लाघादीनां भावकर्मणी प्रति विषयमाह, एषां च भावकर्मणी प्रति विषयत्वं भावकर्मसाध्यत्वात्, क्रियारूपत्वाच्च तेषां भावकर्मणी प्रति साध्यत्वमुपपद्यत एव भावकर्मणोः सत्वात्मनोस्तत्र कारकत्वोपपत्तेरिति श्लाघादीनां कारके भावे कर्मणि च प्रत्यय इत्यर्थः, अयमर्थः, श्लाघाद्या हि क्रियास्ताश्च कारकैरेव साध्याः, कारकाणि चात्र भावकर्मरूपाण्येवेति तैः साध्यत्वम् ।
पठितं चेति प्रवरमाद्यं गोत्रं तस्याध्यायस्तत्र पठितं यत् गोत्रं तदप्यभिधीयते, एतेन किमुक्तं भवति ? द्विविधमिह गोत्रं गृह्यते, तेन मित्रयोर्भावः कर्म वेति कृते मैत्रेयिकेत्यत्र प्रयोजनम् । होत्राभ्य ईयः ॥ ७. १. ७६ ॥
होत्राशब्द ऋत्विग्विशेषवचनः, ऋत्विग्विशेषवाचिभ्यस्तस्य भावे कर्मणि च ईयः प्रत्ययो भवति त्वतलौ च । मैत्रावरुणस्य भावः कर्म वा मैत्रावरुणीयम्, मैत्रावरुणत्वम्, मैत्रावरुणता ॥ अग्नीधः अग्नीधीयम्, नेष्टः नेष्ट्रीयम्, पोतुः पोत्रीयम्, ब्राह्मणाच्छसिनो ब्राह्मणाच्छंसीयम् । हूयते आभिरिति होत्रा ऋच इत्येके, तान्येवोदाहरणानि । मैत्रावरुणादयस्तु ऋग्वचनाः, बहुवचनं स्वरूपविधिनिरासार्थम् ।७६।
न्या० स० होत्रा०-ऋत्विगविशेषवचन इति स्त्रीलिङ्गोऽपि सन् ऋत्विजः प्राह । ब्रह्मणस्त्वः ॥ ७. १. ७७ ।।
होत्राभ्य इति वर्तते, ब्रह्मन् इत्येतस्मादत्विग्वाचिनस्तस्य भावे कर्मणि च त्वः प्रत्ययो भवति, ईयापवादः । ब्रह्मणो भाव: कर्म वा ब्रह्मत्वम, होत्राधिकाराद् ब्राह्मणपर्यायाज्जातिवाचिनो ब्रह्मशब्दात् तलपि भवति, ब्रह्मत्वम् ब्रह्मता ।७७।।
न्या० स० ब्रह्मण –ईयापवाद इति ईयेत्युपलक्षणं तलोऽप्ययमपवादः, अन्यथा ईयस्यैव प्रतिषेधे ब्रह्मणो नेति सूत्रं कुर्यात् ।
तलपीति न केवलं 'भावे त्वतल' ७-१-५५ इत्यनेन त्वः किंतु तलपि, अयमर्थः ऋत्विग्रवचनस्य ब्राह्मणवचनस्य च त्वप्रत्ययः समानः, तेन जातिवचनस्य तलपि भवतीत्यर्थः । उपलक्षणं चेदं तेन ब्रह्मणो भावः कर्म वा प्राणिजात्यनि ब्राह्ममित्यपि । शाकटशाकिनौ क्षेत्रे ॥ ७. १. ७८॥
तस्येति वर्तते, क्षेत्रं धान्यादीनामुत्पत्त्याधारभूमिः, तस्येति षष्ठयन्ताक्षेत्रेऽर्थे शाकटशाकिन इत्येतो प्रत्ययौ भवतः । इक्षूणां क्षेत्रम् इक्षुशाकटम्, इक्षुशाकिनम्, मूलकशाकटं मूलकशाकिनम्, शाकशाकटम् शाकशाकिनम् ।७८। धान्येभ्य ईनञ् ॥ ७. १. ७९ ॥
धान्यवाचिभ्यः षष्ठयन्तेभ्यः क्षेत्रेऽर्थे ईनञ् प्रत्ययो भवति । कुलत्थानां