________________
२१४ ] बृहवृत्ति-लघुन्याससंवलिते [पा० १. सू० ५२-५५ )
न्या० स० तस्या-राजाहमिति अत्राद्यत्वात् न भरतस्योपमानमन्यो राजाऽस्ति स एव सर्वेषां राज्ञामुपमानभूतस्तत्र राजवदिति, राज्ञ आत्मन एवार्ह वृत्तमवर्ततेत्यर्थः । स्यादेरिवे ॥ ७. १. ५२ ॥
स्याद्यन्तादिवार्थे वत्प्रत्ययो भवति, इवशब्दः सादृश्यं द्योतयति । तच्चे त्सादृश्यं क्रियायां क्रियाविषयं क्रियागतं भवति । क्षत्रिया इव क्षत्रियवद्युध्यन्ते ब्राह्मणाः, अश्ववद्धावति चैत्रः, देवमिव देववत्पश्यन्ति मुनिम् । साधुनेव साधुवदाचरितं मैत्रेण, ब्राह्मणायेव ब्राह्मणवदत्तं क्षत्रियाय पर्वतादिव पर्वतवदवरोहति आसनात् । स्यादेरिति किम् गच्छन्नास्त इव मन्दत्वादीप्सितदेशस्य असंप्राप्तेः । अधीयानो नृत्यतीव अङ्गविकारप्रायत्वात् । क्रियायामित्येव गौरिव गवयः । देवदत्त इव गोमान्, हस्तीव स्थूलः । अत्र द्रव्यगुणविषये सादृश्ये न भवति । कथं देवदत्तवत्स्थूलः यज्ञदत्तवदोमान् इति । अत्र तुल्यायामस्तौ भवतौ चाध्याहियमाणायां प्रत्ययो भविष्यति, अथोपमानोपमेयक्रिययोः साधनभेदापेक्षायामिह कस्मान्न भवति ऋचं ब्राह्मणवदयं गाथामधीत इति, सापेक्षत्वात् । ५२ ।
न्या० स० स्यादे०-असंप्राप्तेरिति यथा आसीनोऽभिमतं देशं न प्राप्नोति तथैष गच्छन्नपि । साधनभेदापेक्षायामिति यद्यपि वस्तुवृत्त्या अध्ययनमेकमेव तथापि साधनभेदाद् व्याप्यलक्षणभेदाद् भेद एव । सापेक्षत्वादिति ब्राह्मणवत् अयं गाथामधीत इत्युक्ते हि ऋचः कर्मणोऽपेक्षा भवति । तत्र ।। ७. १. ५३ ॥
तत्रेति सप्तम्यन्तादिवार्थे वत्प्रत्ययो भवति । मथुरायामिव मथुरावत्पाटलिपुत्र प्रासादाः, स्रुघ्न इव साकेते परिखा स्रुघ्नवत् । गुरुवदरुपुत्रे वर्तितव्यमित्यादिषु क्रियासादृश्ये पूर्वेणैव सिद्धम् । अक्रियार्थस्त्वारम्भः ।५३ ।
न्या० स० तत्र-अक्रियार्थ इति तथापि नारम्भणीयमिदं सूत्रं षष्टीसप्तम्योराभेदात् सप्तमीविषये षष्टीप्रवृत्तदर्शनात उत्तरसत्रेणैव भविष्यति. न. अधिकरणविवक्षायां सप्तम्यन्तादपि यथा स्यादित्येवमर्थः न च सप्तमीविषये षष्ठ्या नियमेन समावेशः, यथा नभसीवोदके शशीति । तस्य ॥ ७. १. ५४॥
तस्येति षष्ठयन्तादिवार्थे वत्प्रत्ययो भवति । चैत्रस्येव मैत्रस्य गावश्चैत्रवत्, ब्राह्मणस्येव क्षत्रियस्य दन्ताः ब्राह्मणवत्, अक्रियाविषयसादृश्यार्थ आरम्भः । योगविभाग उत्तरार्थः ।५४। भावे स्वतल ॥ ७. १. ५५ ॥ तस्येति षष्ठयन्ताद्भावेऽभिधेये त्व तल इत्येतौ प्रत्ययौ भवतः । भवतो