________________
(पाद. १. सू. ४९-५१] श्रीसिद्धहेमचन्द्रशब्दानुशासने सप्तमोऽध्यायः [२१३ प्रत्ययो भवति या सा परिखा सा चेत्स्यादिति योग्यतया संभाव्यते, तदित्यनेन यथाधिकृतस्य प्रत्ययस्य विधास्यमानत्वादिहोत्तरत्र च एयणेवानुवर्तते । परिखा आसामिष्टकानां स्यादिति पारिखेय्य इष्टकाः। स्यादिति संभावने सप्तमी । इष्टकानां बहुत्वेन संभाव्यत एतत्परिखासां स्यादिति । स्यादिति । किम् ? परिखा इष्टकानाम् । परिणामिनीत्येव ? परिखास्य नगरस्य स्यात् ।४८।
न्या० स० परि०-एयणेवेति एतत्सूत्रोत्तरसूत्रकरणात् , अन्यथा तदित्यने नैव यथाधिकृतस्य सिद्धत्वादिदं सूत्रद्वयं व्यर्थम् । अत्र च ।। ७. १. ४९॥
परिखाशब्दान्निर्देशादेव प्रथमान्तादत्रेति सप्तम्यर्थ एयण प्रत्ययो भवति सा चेत्परिखा स्यादिति संभाव्यते । परिखास्यां स्यात् पारिखेयो भूमिः । योगविभागः परिणामिनीत्यस्येह असंबन्धार्थः । चकार उत्तरत्रास्य स्यादिति परिणामिन्यत्र स्यादिति चोभयस्याप्यनुवृत्त्यर्थः । ४९ ।।
न्या० स० अत्र च०-असंबन्धार्थ इति तेनेह परिणामिनि अपरिणामिनि च भवतीत्यर्थः । तद् ॥ ७. १. ५०॥
तदिति प्रथमान्तादस्येति पष्ठयर्थे परिणामिनि अत्रेति सप्तम्यर्थे च यथाधिकृतं प्रत्ययो भवति यत्तत्प्रथमान्तं तच्चेत्स्यादिति संभाव्यते । प्राकार आसामिष्टकानां स्यात्प्राकारीया इष्टकाः। प्रासादीयं दारु, परशव्यमयः । प्रासादोऽस्मिन्देशे स्यात् प्रासादोयो देशः, प्रासादीया भूमिः। स्यादित्येव प्राकार इष्टकानाम् । परिणामिनीत्येव प्रासादोऽस्य चैत्रस्य स्यात् । ५० । तस्याहे क्रियायां वत् ॥ ७. १. ५१ ॥
ईयस्य पूर्णोऽवधिः, अर्हतीत्यहम् ' अच् '-( ५-१-४९ ) इत्यच् । तस्येति षष्ठ्यन्तादर्हेऽर्थे वत् प्रत्ययो भवति यत्तदहं तच्चेत् क्रिया भवति राज्ञोऽहं राजवत् वृतमस्य राज्ञः, राजत्वस्य युक्तमस्य राज्ञो वृत्तमित्यर्थः, राजवदवर्तत भरतः । राजाहं वर्तते स्मेत्यर्थः । एवं कुलीनवत्, साधुवत् । स शिरांसि द्विषामाजौ चिच्छेद कृतहस्तवत् । राज्ञि एकस्मिन्नुपमानोपमेयभावासंभवादुत्तरेण न सिध्यतीति वचनम्, यदा तु राज्ञः सगरादेर्वृत्तस्याह इदानींतनः कश्चिद्राजेति भेदो विवक्ष्यते तदोत्तरेणैव सिद्धम् । क्रियायामिति किम् शतस्या) देवदत्तः, राज्ञोऽर्हो मणिः । ५१ ।