________________
२१२ ] बृहद्वृत्ति-लघुन्याससंवलिते [पाद. १ सू० ४५-४८ ] मत्रादितया परिणमति न तु तदर्थम् अथवा तदर्थे इति चतुर्थीविशेषणम् । तदर्थे या चतुर्थी तदन्तात्प्रत्ययः, इह तु संपद्यतौ चतुर्थीति न भवति । तस्मै इत्येव ? सक्तूनां धानाः, धानानां यवाः । अत्र सत्यपि तादर्थ्य संबन्धमात्रविवक्षायां षष्ठी यथा गुरोरिदं गुर्वर्थमिति । भवति च सतोऽप्यविवक्षा यथानुदरा कन्येति ।४४।
न्या० स० परि० अथवेति पूर्व हि तदर्थे इति परिणामिशब्दस्य विशेषणम् । चर्मण्यञ् ॥ ७. १. ४५ ।।
तस्मै इति चतुर्थ्यन्तात्परिणामिनि तदर्थे चर्मण्यभिधेये अञ् प्रत्ययो भवति । वर्धायेदं वार्धम् चर्म, वरत्राय इदं वारत्रं चर्म, रथोपस्थायेदं राथोपस्थं चर्म, हलाबन्धायेदं हालाबन्धं चर्म । सनङ्गके इदं सनङ्गव्यं चर्मेति 'उवर्णयुगादेर्यः' (७-१-३०) इति यग्रहणाद्य एव भवति । सनङ्ग श्चर्मविकारः ।। ४५॥
• न्य० स० चर्म०-राथोपस्थमिति अत्राधिकारायातत्वात् परिणामिनीति योजितमपि यथासंभवं योज्यं, तेनाऽत्र चर्मणो रथोपस्थरूपेण परिणामाभावेप्यञ् भवति । सनगवे इति अङ्गेषु सन्नं 'राजदन्तादिषु' ३-१-१४९ इति सप्तम्यन्तस्य परनिपातः, पृषोदरादित्वात् सनगुशब्द आदेशः । चर्मविकार इति स्थालादीनां रक्षार्थ कोशः । ऋषभोपानहायः ।। ७. १. ४६ ॥
ऋषभ उपानह इत्येताभ्यां चतुर्थ्यन्ताभ्यां परिणामिनि तदर्थे अभिधेये ज्यः प्रत्ययो भवति । ऋषभाय अयम् आर्षभ्यो वत्सः, औपानह्यो मुञ्जः, औपानाम् काष्ठम् औपानां चर्मेति चर्मण्यपि परिणामिनि परत्वादयमेव भवति ।४६। छदिलेरेयण ॥ ७. १. ४७ ।।
छदिस बलि इत्येताभ्यां चतुर्थ्यन्ताभ्यां परिणामिनि तदर्थे एयण प्रत्ययो भवति । छदिषे इमानि छादिषेयाणि तृणानि, बलये इमे बालेयास्तण्डुलाः, चर्मण्यपि परत्वादयमेव भवति । छादिषेयं चर्म । कथमौपधेयः, उपधोयत इत्युपधेयः । स एव प्रज्ञाद्यणि स्वाथिके औपधेयः। उपधिः रथाङ्गमिति यावत्, अत उपधेः स्वार्ये एयणिनि नारम्भणीयम् ।४७। परिखास्य स्यात् ।। ७. १. ४८।।
परिखाशब्दान्निर्देशादेव प्रथमान्तादस्येति षष्ठयर्थे परिणामिनि एयण्