________________
[ पाद. १. सू. ४१-४४ ] श्री सिद्धहेमचन्द्र शब्दानुशासने सप्तमोऽध्यायः
पञ्चसर्वविश्वाज्जनात्कर्मधारये ॥ ७ १ ४१ ॥
पञ्च सर्व विश्व इत्येतेभ्यः पराज्जन शब्दात्कर्मधारये वर्तमानात्तस्मै हिते ईनः प्रत्ययो भवति, ईयापवादः । पञ्चजनेभ्यः पञ्चजनाय वा हितः पञ्चजनीनः, रथकारपञ्चमस्य चातुर्वर्ण्यस्य पञ्चजन इति संज्ञा एवं सर्वजनीनः, विश्वजनीनः । कर्मधारय इति किम् ? पञ्चानां जनः पञ्चजनः, तस्मै हितः पञ्चजनीय: । सर्वोजनोऽस्य सर्वेषां वा जनः, सर्वजनः, तस्मै हितः सर्वजनीयः, एवं विश्वजनीयः ॥ ४१ ॥
[ २११
न्या॰ स॰ पञ्च० रथकारपश्चमस्येति द्वादशधा भिन्नस्य शूद्रस्य त्रैवर्ण्यस्य च मध्ये न पततीति रथकारस्य पृथगुपादानं, यत आरथकृन्मिश्रजातय इत्युक्तं रथकास्य तु किं लक्षणम् ? इति चेत्, उच्यते - माहिष्येण तु जातः स्यात् करण्यां रथकारकः, वेश्यायां क्षत्रियाज्जातो माहिष्य उच्यते, वृषलस्त्रियां वैश्यात्तु करणः स्त्री चेत् करणी |
महत्सर्वादिक ॥ ७. १. ४२ ॥
महतः सर्वाच्च यो जनशब्दस्तदन्तात्कर्मधारये वर्तमानात्तस्मै हिते इकण् प्रत्ययो भवति । महते जनाय हितः माहाजनिकः, सर्वस्मै जनाय हितः सार्वजनिकः, एवं च सर्वजनात्पूर्वेण ईनः अनेनेकणिति द्वैरूप्यम् । कर्मधारय इत्येव ? महान् जनोऽस्य महाजनः, तस्मै हितः महाजनीयः, सर्वेषां जनाय हितं सर्वजनीयम् ॥४२०
सर्वाणो वा ॥ ७. १. ४३ ।।
जनात्कर्मधारय इति च निवृत्तम्, सर्वशब्दात्तस्मै हिते णः प्रत्ययो वा भवति । सर्वस्मै हितः सार्वः, पक्षे ईयः सर्वीयः |४३|
परिणामिनि तदर्थे । ७. १.४४ ॥
हित इति निवृत्तम्, तद्भावः परिणामस्सोऽस्यास्तीति परिणामि द्रव्यमुच्यते, तस्मै इति चतुर्थ्यन्तात्तदर्थे चतुर्थ्यन्तार्थार्थे परिणामिनि कारणद्रव्येऽभिधेये यथाधिकृतं प्रत्ययो भवति । अङ्गारेभ्य इमानि अङ्गारीयाणि काष्ठानि, अङ्गारार्थानीत्यर्थः । एवं प्राकारीया इष्टकाः, शङ्कव्यं दारु, पिचव्यः कर्पास: आमिक्ष्यम् आमिक्षयं दधि, ओदन्या ओदनीयास्तण्डुलाः । अपूप्यम् अपूपीयम् पिष्टम् । परिणामिनीति किम् ? उदकाय कूपः, अ कोशी । न कूपः कोशी वा उदकासिभावेन परिणमेते । तदर्थे इति किम् ? मूत्राय यवागूः, उच्चाराय यवान्नम्, पादरोगाय नड्वलोदकम् । यवाग्वादि